________________
[६९३
सप्तदशः सर्गः । द्वारकादाहवृत्तान्तः ॥]
यदभावि न तद्भावि भावि चेन्न तदन्यथा । तद्गच्छत(तं) पुराऽख्यातं माऽस्म विस्मरतं मम ॥३०२॥ इति श्रुत्वाऽपि तद्वाचमाकर्षन्तौ रथं पुनः । भृशमावामभाषन्त पितरः स्नेहकातराः ॥३०३॥ वत्सौ ! वात्सल्यमस्मासु स्वोचितं चक्रथुर्युवाम् । अवश्यं भाविनो भावाः किंतु स्युर्महतामपि ॥३०४॥ ततोऽस्तु वां शिवः पन्था विजयेथां चिरं युवाम् । अस्माभिः पुनरत्रैव नेमिः शरणमाश्रितः ॥३०५॥ यद्वद्धं मनसाऽस्माभिर्वचसा यच्च भाषितम् । कृतं यच्चापि कायेन तन्नो मिथ्याऽस्तु दुष्कृतम् ॥३०६॥ क्षमयामोऽखिलान् जीवान्सर्वे क्षाम्यन्तु तेऽपि नः । मैत्री सर्वेषु भूतेषु वैरमस्ति न केनचित् ॥३०७॥ अशनादिकमाहारं प्रत्याख्यामश्चतुर्विधम् ।। अर्हदादींश्च पञ्चापि स्मरामः परमेष्ठिनः ॥३०८॥ वयं कस्यापि नेदानीमस्मदीयो न कश्चन । इत्युन्मदिष्णुनिर्वेदमात्मानमनुशास्महे ॥३०९॥ इत्याहारपरीहारतत्परैः पितृभिः पुनः । विसृष्टौ वलितग्रीवौ व्रजावः स्म कथञ्चन ॥३१०॥ तदैव देवापसदस्तानधाक्षीत्क्षणेन सः । तेऽपि त्रिदिवमासेदुर्बुवं तद्ध्यानढौकितम् ॥३११॥ जरासंधवधाख्यानसदुपाध्याय ! पश्यति । नाथे त्वय्यप्यसह्येन हहा ! दह्यामहेऽग्निना ॥३१२॥ इत्थमुत्थास्नुभिर्दीनैः प्रलापैः पुरवासिनाम् । दीर्णकर्णः सरामोऽहं जीर्णाराममुपागमम् ॥३१३॥ युग्मम् । भवन्ती भस्मसाद्वीक्ष्य द्वारका रङ्कवत्पुरः । तत्र स्थितं विषण्णात्मा संकर्षणमवादिषम् ॥३१४॥
१. अधमदेवः ।