________________
६९२]
10
[ पाण्डवचरित्रमहाकाव्यम् । द्वारकादाहवृत्तान्तः ॥ ततः संवर्तको वातः प्रावर्तत समन्ततः । स निचिक्षेप पुर्यन्तदूरादुन्मूल्य पादपान् ॥२८८॥ अन्तर्वासप्ततिः षष्टिर्बहिश्च कुलकोटयः । अपिण्ड्यन्त भयान्नष्टा अप्युपानीय केनचित् ॥२८९॥ मयि पश्यति रामे च वह्निमह्नाय कश्चन । दारुणो दारुपूर्णायां द्वारकायामदीपयत् ॥२९०॥ अहं शोकान्धकारेण धूमस्तोमेन चाम्बरम् । युगपत्परितः प्राप्तव्यासेन व्यानशेतमाम् ॥२९१॥ अभ्रंलिहाभिर्चालाभिधूमोऽथ निरधूयत । मम शोकान्धकारस्तु कामं वृद्धिमनीयत ॥२९२॥ अथाहं वसुदेवं च देवकी चाथ रोहिणीम् । आरोप्य रथमाक्रष्टुं प्रवृत्तः सह शीरिणा ॥२९३॥ नाश्वैर्न वृषभैः किञ्चिद्रथं कष्टुमशक्यत । आवां युगार्पितस्कन्धौ ततोऽभूव धुरंधरौ ॥२९४॥ अभञ्जि द्रुतमक्षाभ्यां सद्योऽभाजि युगेन च । रथः कथञ्चिदावाभ्यां निन्ये तदपि गोपुरम् ॥२९५।। अथ क्षणाददीयेतां कपाटौ तत्र केनचित् । रामेणाध्रिप्रहारेण व्यघट्येतां च वेगतः ॥२९६।। महीमग्नो रथः किञ्चिदस्मत्कृष्टोऽपि नाचलत् । क्लीबः पित्रोरपि त्राणे व्यषीदं पौरुषे ततः ॥२९७॥ विषादिनं तदानीं मां देवः कश्चिद्दिवि स्थितः । उच्चैरुवाच भोः कृष्ण ! कृतं तव परिश्रमैः ॥२९८॥ यस्मादस्मि स एवाहं द्वीपायनवरः सुरः । उत्पन्नोऽग्निकुमारेषु स्मृत्वा वैरं करोम्यदः ॥२९९।। किंत्वेकादशवर्षाणि परमोत्कर्षचञ्चना । जनानामप्रमादेन नावकाशो ममाभवत् ॥३००॥ तदहो दहनेनैव मन्निदानभुवाऽमुना । असावानेष्यते मृत्युं मातापितॄजनस्तव ॥३०१॥
15
25