________________
[६९१
सप्तदशः सर्गः । द्वारकादाहवृत्तान्तः ॥]
पुनः प्रसादनायास्य साभिलाषं विलोक्य माम् । न्यषेधल्लाङ्गली विष्णो ! कृतमेतस्य सान्त्वनैः ॥२७५॥ वक्राज्रिनासिकाहस्ताः स्थूलोष्ठोदरनासिकाः । हीनाङ्गाविषमाङ्गाश्च शान्ति यान्ति न जातुचित् ॥२७६॥ ततः प्रेक्षन्मन:खेदे मयि हर्म्यमुपेयुषि । । द्वैपायननिदानार्थः सर्वोऽपि पुरि पप्रथे ॥२७७॥ स्वभावतो ममादेशादुपदेशादपि प्रभोः । बभूव धर्मकर्मैकसज्जो द्वारवतीजनः ॥२७८॥ तदा कृपालुः कालज्ञः समेत्य भगवानपि । पितरौ स्वौ कुमारांश्च प्रद्युम्नादीनदीक्षयत् ॥२७९॥ रुक्मिणीप्रमुखाः स्वामी मदीया महिषीरपि । प्राव्राजयदनेकं च द्वारकालोकमाकुलम् ॥२८०॥ वत्सरे द्वादशेऽवश्यंभाविनं द्वारकाक्षयम् ।। पृष्टः पुनर्ममादिश्य विजहे प्रभुरन्यतः ॥२८१।। शश्वच्चतुर्थषष्ठादितपोनिष्ठैकचेतसः । जनस्यैकादशाब्दानि निर्विघ्नं व्यतिचक्रमुः ॥२८२॥ ततश्च द्वादशे वर्षे व्यतीयुषि कियत्यपि । जितोऽस्मत्तपसा नष्टो द्वैपायनमुनिर्बुवम् ॥२८३॥ एवं निश्चित्य पूर्लोकः प्रमादं मदिरादिकम् । निस्तन्द्रः पुनरादरे दुर्लद्ध्या भवितव्यता ॥२८४॥ युग्मम् । अथोत्पातमहीकम्पनिर्घातोल्कादयोऽभवन् । ग्रहेभ्यो निर्ययौ धूमः कृशानुश्च विवस्वतः ॥२८५॥ ननृतुश्चित्ररूपाणि जहसुः शालभञ्जिकाः । अकाले राहुणा ग्रासः सूर्याचन्द्रमसोरभूत् ॥२८६॥ अकल्याणफलाः स्वप्ना जनैर्ददृशिरे निशि । अनेशन् क्वापि रत्नानि चक्रादीनि ममापि च ॥२८७॥
१. नाभिकाः प्रत्यन्तरे० । २. विषमाक्षाश्च प्रतिद्वये ।