________________
सप्तदशः सर्गः । पाण्डुमधुरा स्थापना ॥ ]
केशवोऽप्यब्रवीन्नव्यां दक्षिणाम्भोधिरोधसि । निर्माय पाण्डुमथुरां तत्र तिष्ठन्तु पाण्डवाः ॥ २२३॥ अथैत्य हास्तिनं कुन्ती सुतानां तदचीकथत् । आगत्य पाण्डुविषये तत्तथा तेऽपि चक्रिरे ॥२२४॥ अभिमन्यूत्तरापुत्रं सुभद्रापौत्रमच्युतः । हस्तिनापुरभूपालं परीक्षितमतिष्ठिपत् ॥२२५॥ अथ तां द्वारकावार्तां परावर्तयतां हृदि । पार्थानां पाण्डुमथुराराज्येष्वासीन्न निर्वृतिः ॥२२६॥ ध्यायन्तः सर्ववस्तूनां ते केवलमनित्यताम् । दीनोद्धारदयादीनि धर्मकर्माणि चक्रिरे ॥ २२७॥ पाण्डुः कुन्ती च संसारमसारं दधतौ हृदि । तदा सस्मरतुः कामं भगवन्तं व्रतार्थिनौ ॥२२८॥ नाथोऽपि समवासार्षीत्तत्रैत्य ज्ञाततन्मनाः । भगवांश्च विवस्वांश्च परोपकृतिकर्मठौ ॥२२९॥ धर्मजन्माऽथ सोत्कण्ठं मातापितृपुरःसरः । गत्वाऽनमज्जगन्नाथमाहितोन्माथमापदाम् ॥ २३०॥ प्रभोः सुधामुचं श्रुत्वा वाचं संविग्नमानसौ । प्रणम्य पाण्डुः कुन्ती च परिव्रज्यामयाचताम् ॥२३१॥ स(त)दैव समयज्ञानामात्मजानामनुज्ञया । तयोरिष्टमपूरिष्ट समीपेऽरिष्टनेमिनः ॥२३२॥ तावथासादितस्वामिप्रसादमुदिताशयौ । व्रताचारमधीयानौ समं तेन विजहुतुः ॥ २३३॥ प्रभोः पित्रोश्च विरहे पाण्डवैरुन्मनायितम् । नक्तंदिवं तदादिष्टे धर्मे तु सुमनायितम् ॥ २३४॥ निर्माप्य तत्र तैश्चैत्यं स्वाम्युत्कण्ठा व्यनोद्यत । मातापित्रोर्वियोगस्तु क्लमयामास तन्मनः ॥२३५॥
१. स्मरताम् ।
[ ६८७
5
10
115
20
25