SearchBrowseAboutContactDonate
Page Preview
Page 701
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 ६८६ ] [ पाण्डवचरित्रमहाकाव्यम् । जराकुमारस्य नगरत्यागो मद्यादिपरिहारश्च ॥ धिगेनं यदसौ पात्रं भावी बन्धुवधैनसाम् । इत्येककालमालोकि तदालोकैर्जरात्मजः ॥ २१०॥ भ्रातुर्घाताय मा भूवमित्यसौ धन्व सेषुधि । बिभ्रद्ययावरण्यानीं द्वारकां च हरिः पुनः ॥ २११॥ तत्रैव यादवस्नेहात्पारिव्राज्य व्रती वसन् । द्वीपायनोऽपि शुश्राव जनेभ्यस्तद्वचः प्रभोः ॥ २१२॥ ततः षष्ठतपः कुर्वन्ब्रह्मचारी शुचिः शमी । पूर्दाहपातकाद्भीतः कान्तारं सोऽप्यशिश्रियत् ॥२१३॥ पुरीदाहकुलोन्छेदनिदानमथ केशवः । नवीनं सीधुसंधानं प्रत्यषेधज्जनप्रियः ॥२१४॥ प्राक्तनं तु कदम्बाद्रेः कदम्बावे वने हरिः । कादम्बरीगुहाभ्यर्णे मद्यमत्याजयज्जनैः ॥२१५॥ भूरिभूमीरुहाकीर्णे तत्र तैस्त्यक्तया तया । आकर्णान्तमपूर्यन्त शिलाकुण्डानि शुण्डया ॥२१६॥ तदानीं चाभ्यधाद्बन्धुः सिद्धार्थः सारथिर्बलम् । अनुज्ञातस्त्वया दीक्षां जिघृक्षामि जिनान्तिके ॥ २१७॥ बलोप्यूचे सहायं त्वां विस्रष्टुं नाहमुत्सहे । एतेन पणबन्धेन विदधे तु तवेप्सितम् ॥२१८॥ यदि देव प्रदत्तापत्प्रौढिव्यामूढमानसम् । दिवं यातः कदाऽप्येत्य स्नेहान्मां बोधयिष्यसि ॥२१९॥ तथेत्युक्त्वा व्यधात्स्वार्थं सिद्धार्थस्तदनुज्ञया । चरंश्चारित्रमन्यत्र ययौ च स्वामिना समम् ॥ २२०॥ चिरादवसरं प्राप्य कुन्ती कृष्णमथावदत् । पाण्डवाः क्वाऽऽसतां वत्स ! त्वया निर्विषयीकृताः ? ॥ २२९ ॥ तवैवेयमशेषाऽपि भरतार्धवसुन्धरा । तत्प्रसीद स्वबन्धूनां किमपि स्थानमादिश ॥ २२२॥ १. मदिरया ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy