________________
[६८३
सप्तदशः सर्गः । कपिलकृष्णयों: शखंनादः ॥]
आससाद क्षणादेव लवणोदन्वतस्टतम् । अपश्यच्च स कृष्णस्य स्यन्दनप्रधि:पद्धतिम् ॥१७०॥ पञ्चवर्णरुचीन्सन्ध्यारागैरिव विनिर्मितान् । मध्येजलधि चैक्षिष्ट तदीयरथकेतनान् ॥१७१॥ ततो मदीयमादाय स्वागतं गन्तुमर्हसि । इति व्यक्ताक्षरं दध्मौ कपिलो वारिजं निजम् ॥१७२॥ स्वागतं लब्धमस्माभिः प्रणयेनामुना तव । इति विस्पष्टवर्णं स्वं शङ्ख कृष्णोऽप्यपूरयत् ॥१७३॥ तन्निनादमुपश्रुत्य कपिलोऽथ न्यवर्तत । जगामामरकङ्कां च दत्तातङ्कां मुरारिणा ॥१७४॥ कुर्वाणेनैनमन्यायं प्रतापस्य मम त्वया । चक्रे म्लानिरियं दुष्ट ! तिष्ठ मा तत्पुरो मम ॥१७५॥ इत्युक्त्वा पद्मभूपालं कोपेन निरवासयत् ।। कपिलः स्थापयामास तत्पदे च तदात्मजम् ॥१७६।। गच्छन्नन्तःसमुद्रं च रथोत्सङ्गे निषेदुषीम् । प्रेयसीमिति सप्रेम व्याजहार युधिष्ठिरः ॥१७७॥ प्रणीतप्रार्थने देवि ! तस्मिन्भूपालपांसने । किं विचिन्त्य तदा मासोऽवधित्वेन त्वयाऽर्थितः ? ॥१७८॥ साऽभ्यधाद् देव ! चेन्मासमध्ये नैष्यन्ति मत्प्रियाः । तदाऽनशनमादाय मरिष्यामीत्यचिन्तयम् ॥१७९॥ कृष्णोऽथाभ्यागमत्पारेपारावारं यथागतम् । वल्लभालाभकल्लोलिचेतोभिः सह पाण्डवैः ॥१८०॥ सुस्थितं लवणाधीशं यावदामन्त्रये क्षणम् । तावन्मन्दाकिनी यूयमेतामुत्तरताग्रतः ॥१८१॥ इत्यादेशेन कंसारेर्नावमासाद्य काञ्चन । उत्तेरुः पाण्डवा गङ्गां पृथु द्वाषष्टियोजिनीम् ॥१८२॥ युग्मम् ।
१. प्रधिः-चक्रनाभिः । २. शवम् । ३. दत्तभयाम् ।