________________
5
६८४]
[पाण्डवचरित्रमहाकाव्यम् । कृष्णस्य क्रोधः ॥ बलानुजन्मनो बाहुबलं वीक्षिष्यतेऽधुना। इत्यालोच्य न ते नावं प्राहिण्वन् वनमालिने ॥१८३॥ ततः सुस्थितमापृच्छ्य न्यस्य वामे भुजे रथम् । दोष्णाऽन्येन हरिगङ्गां तरीतुमुपचक्रमे ॥१८४॥ कृच्छ्राद्गच्छन्प्रवाहान्तः श्रान्तः शौरिरचिन्तयत् । श्लाघ्यास्ते खलु कौन्तेयास्तीर्णेयं यैः सुरापगा ॥१८५॥ अथास्मिन्नतिखिन्नेऽन्तर्विचक्रे देवतास्थलम् । मुहूर्तं तत्र विश्रम्य पारेगङ्गं ययौ हरिः ॥१८६ तत्रापृच्छत् सुतान्पाण्डोः केशवो ननु जाह्नवीम् । भवन्तः कथमुत्तीर्णास्तेऽपि नावेत्यचीकथन् ॥१८७॥ किं नौर्न प्रेषिता मह्यमित्युक्तेऽथ मुरारिणा । वीक्षितुं तव दो:सारमित्याख्यान्ति स्म पाण्डवाः ॥१८८।। ततः कोपारुणीभूतचक्षुर्दामोदरोऽभ्यधात् । कंस-केशि-जरासंधचाणूरादिवधे पुरा ॥१८९॥ सम्प्रत्येव जये पद्मनाभस्य च महीभुजः । नेक्षितं मम दोःसारं ? दिदृक्षध्वेऽधुनैव यत् ? ॥१९०॥ इत्युदीर्य मुरारातिर्लोहदण्डेन कोपतः । स्यन्दनान् पाण्डवेयानां लोष्टचूरमचूरयत् ॥१९१॥ त्रिभिर्विशेषकम् । जगाद च यदि क्षोणी मदीयामधिवत्स्यथ । सपुत्रबान्धवानीकास्तदानीं न भविष्यथ ॥१९२॥ सक्रोधमभिधायेति कंसारिरकां ययौ । श्यामीभूतमुखाम्भोजाः पाण्डवा अपि हास्तिनम् ॥१९३।। ते तत्राभ्येत्य तां वार्ता मातापित्रोर्यवेदयन् । सुखदुःखैकविश्रामः पितरौ हि तनूरुहाम् ॥१९४॥ अथ पाण्डुर्विमृश्यान्तरनुरोधविधित्सया । द्वारकायां पुरि प्रेषीत् कुन्ती कंसान्तकान्तिकम् ॥११९५॥ ततः कुन्ती गजारूढा द्वारकोद्यानमीयुषी । प्रभोः समवसरणं वीक्ष्य पद्भ्यां तदाविशत् ॥१९६।।
20