SearchBrowseAboutContactDonate
Page Preview
Page 697
Loading...
Download File
Download File
Page Text
________________ 10 ६८२] [पाण्डवचरित्रमहाकाव्यम् । द्रौपदी लात्वा अमरकंकायाः निवर्तनम् ॥ तेनाऽऽनीयार्पिता मह्यं पाञ्चाली बुबुधे ततः । अपश्यन्ती निजं वेश्म सम्भ्रमं चाभजत्परम् ॥१५६॥ ततोऽहं तां तथाभूतामभ्यधां मा स्म सुन्दरि ! । किञ्चित्कार्षीर्मनःक्षोभं किंकरोऽस्मि पुरस्तव ॥१५७॥ द्वीपेऽस्मिन् धातकीखण्डे जम्बूद्वीपादहारयम् । नृपः पद्माभिधोऽहं त्वां तन्मां मन्यस्व वल्लभम् ॥१५८॥ ततः किञ्चिद्विचिन्त्येयमूचे मां चेन्न मामकः । कश्चिदेष्यति मासान्तः करिष्ये ते वचस्तदा ॥१५९।। सागरान्तरिताज्जम्बूद्वीपतः क इहैष्यति ? । इत्यालोच्य मयाऽप्यस्या वचस्तदुररीकृतम् ॥१६०॥ भवन्तो भ(भु)वनातीतमहिमैकास्पदं पुनः । व्यतीत्यार्णवमप्येनं पृष्ठतोऽस्याः समागमन् ॥१६१॥ इत्याख्याय कथां कृष्णविसृष्टः सोऽविशत्पुरीम् । कृष्णोऽपि ववले कृष्णां कृत्वा कौन्तेयसात्ततः ॥१६२॥ तदा च तत्र चम्पायामारामे पूर्णभद्रके । मुनिसुव्रततीर्थेशः समेत्य समवासरत् ॥१६३।। रणारम्भभवं कृष्णपाञ्चजन्यस्य निःस्वनम् । श्रुत्वाऽपृच्छत्सभासीनस्तं हरि: कपिलाभिधः ॥१६४॥ भगवन् ! भुवनाभोगभिदारम्भयङ्करः । मत्समानस्य कस्यैष शङ्खनादो विजृम्भितः ? ॥१६५॥ तीर्थकृत्कपिलेनेति पृष्टे विस्पष्टविस्मयम् । पद्मनाभमहीपालकथां सर्वामचीकथत् ॥१६६॥ अत्रायातस्य कृष्णस्य स्वागतं कर्तुमिच्छति । मनो मे कपिलेनेति प्रोक्ते भूयो विभुर्जगौ ॥१६७॥ कदापि न भवत्येतद्भविष्यति बभूव वा । सङ्गच्छेते जिनौ चक्रभृतौ शौरी च यन्मिथः ॥१६८॥ वीक्षिष्यसे तथाप्यस्य त्वं पताकां पताकिनः । इत्याकर्ण्य विभोर्वाचं सोऽनुकृष्णमधावत ॥१६९॥ 15 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy