SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ सप्तदशः सर्गः । पद्मनाभेन सह युद्धम् ॥ ] ऊचे च रे मुकुन्दोऽसौ जम्बूद्वीपे भयङ्करः । इह तूर्जस्विनः कीदृग् सानीकोऽपि पुरो मम ? ॥११७॥ तद् व्रजाऽऽयात एवाहमेषोऽनुपदमेव ते । सज्जीकुरु सेमीकाय तं जवात्सह पाण्डवैः ॥११८॥ परं यदि रणे नैतान्सर्वानप्येकहेलया । २ ग्रासीकुर्वे तदा दूत ! पद्मनाभोऽसि न ध्रुवम् ॥११९॥ इत्यस्य गिरमागत्य दारुको मुरविद्विषः । आख्याति स्म ततः सोऽपि सपार्थः समवर्मयत् ॥१२०॥ पद्मनाभोऽथ ककुभः पूरयन्पृतनोर्मिभिः । नगर्या निरगाद्योद्धुकामः केशवपाण्डवैः ॥१२१॥ पाण्डवान् पुण्डरीकाक्षस्तस्मिन्नभ्यागतेऽभ्यधात् । योत्स्यध्वे यूयमेतेन युध्येऽहं वा विरोधिना ? ॥१२२॥ अथोचुः पाण्डवाः कोऽयमस्मिन्नपि तवोद्यमः । वडवाहव्यवाहस्य कः संरम्भो हि पल्वले ? ॥१२३॥ तद् विष्णो वयमेवैनं योधयिष्यामहे बलात् । अयं वा भवितेदानीं वयं वा जयभाजनम् ॥१२४॥ इत्युदीर्य सुताः पाण्डोरभ्यमित्रीणतां दधुः । तथैवास्थान्मुरारिस्तु सङ्गरालोककौतुकी ॥१२५॥ पद्मनाभपताकिन्या साकं कुन्तीतनूरुहाम् । अथाभूद्भुवनाभोगडामरः समरश्चिरम् ॥ १२६ ॥ ततः पँराञ्चिते किञ्चिदनीके पाण्डुजन्मभिः । भूपतिः स्वयमुत्तस्थे भूरिस्थामा महाभटैः ॥१२७॥ पाण्डवेयास्ततस्तेन तथा बाणैर्बभञ्जिरे । यथा समरमुत्सृज्य मुरारिं शरणं ययुः ॥१२८॥ व्याहरंश्च हरे ! नैनं विजेतुं वयमीश्महे । त्वमेव नूनमेतस्मै स्थास्यसे समराङ्गणे ॥१२९॥ १. युद्धाय । २. वडवानलस्य । ३. डामरः- आश्चर्यकृत् । ४. पराजिते । [ ६७९ 5 10 15 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy