________________
5
10
15
20
25
६७८ ]
[ पाण्डवचरित्रमहाकाव्यम् । कृष्णादीनां पद्मनाभं प्रति दूतप्रेषणनम् ॥ सानीकमहितं हत्वा क्षिप्त्वा च मकराकरे ।
तां देव ! धातकीखण्डादुपानीय तवार्पये ॥१०४।। मम स्वप्रेष्यदेशस्य यद्यादेशं प्रयच्छसि ।
स्वयं तु कोऽयमारम्भः कार्येऽमुष्मिन् लघीयसि ? ॥१०५॥ युग्मम् | ततोऽब्रवीन् मुरारातिः सर्वं त्वय्युपपद्यते ।
किं त्वेवं विहितं कार्यमस्माकमयशस्करम् ॥१०६॥
ततो नः सरितां नाथमतिक्रम्य यथा रथाः । यान्ति षड् धातकीखण्डे तथा त्वं कर्तुमर्हसि ॥१०७॥ तथैवेति कृते तेन पञ्च पाण्डुतनूरुहाम् । षष्ठश्च स्यन्दनः सौरेरुत्तेरुर्लवणार्णवम् ॥१०८॥ ततस्ते धातकीखण्डेऽमरकङ्कापुरीं ययुः । बाह्योद्याने च सर्वर्तुकेलिवेश्मन्यवातरन् ॥१०९॥ तत्र कोपभरात्तत्तदनुशिष्य मुरारिणा । दारुकः प्रेषयाञ्चक्रे पद्मनाभनृपान्तिकम् ॥ ११०॥ तस्यास्थानस्थितस्यैत्य दारुको दारुणाकृतिः । पादपीठं पदाऽऽक्रम्य ददौ कुन्तेन पत्रकम् ॥ १११॥ अवादीच्च मदाचान्तस्वान्त ! भूपालपांसन ! । ब्रूते त्वां मुरजिज्जम्बूद्वीपस्य भरतार्धभुक् ॥११२॥ रे ! त्वया पाण्डवेयानां मद्बन्धूनां प्रियां पुरा । द्रौपदीं हरता किं न चिन्तितं मे भुजोजितम् ? ॥११३॥ तत्तवाद्य ध्रुवं दैवमभवत्प्रातिलोमिकम् । दोर्मदस्तव यद्यस्ति कोऽपि तत्सम्मुखीभव ॥११४॥ अहं तु त्वत्पुरीबाह्यकानने सह पाण्डवैः । षड्भिरेव रथैरेत्य स्थितोऽस्मि रणकेलये ॥ ११५ ॥ दारुकस्येति गां श्रुत्वा पाटयित्वा जवेन तत् । पद्मः सद्म प्रकोपस्य दूरं चिक्षेप पत्रकम् ॥ ११६॥
१. प्रयान्ति धातकी० प्रत्यन्तरे ।