________________
[६७७
सप्तदशः सर्गः । अमरकंकायां कृष्णपाण्डवानां गमनम् ॥]
ततस्तत्कालमुन्मीलद्दुःखसम्भारनिर्भराः । पाण्डवाः प्रेषयन्ति स्म कुन्ती कंसद्विषोऽन्तिकम् ॥९१॥ गत्वा च द्वारकां कुन्त्या तत्रोदन्ते निवेदिते । कञ्चित्कालं हरिस्तस्थौ किङ्कर्तव्यविमूढधीः ॥१२॥ नारदोऽन्येधुरायातः सत्कृत्य मुरविद्विषा । पृष्टः प्रवृत्तिमित्याख्यत्पाञ्चालतनुजन्मनः ॥९३॥ द्वीपेऽस्ति धातकीखण्डेऽमरकङ्केति पूर्वरा । तत्पतिः पद्मनाभोऽस्ति वासपद्म इव श्रियः ॥१४॥ तदीयसदने शौरे ! पाञ्चालीसदृशाकृतिम् । मृगाक्षी काञ्चिदद्राक्षमित्याख्यायोत्पपात सः ॥९५॥ नूनं कर्मेदमस्यैव साऽपि द्रुपदभूर्भुवम् । इति निश्चित्य कंसारिः पितृष्वस्त्रे न्यवेदयत् ॥१६॥ संदिदेश तथा पाण्डुसूनुभ्यश्च यथा जवात् । युष्माभिरभ्युपेतव्यं तीरे प्राग्लवणोदधेः ॥९७॥ इत्युदीर्य विसृष्टेयं विष्णुना हास्तिनं ययौ । समस्तं पाण्डवेभ्यश्च तं वृत्तान्तमचीकथत् ॥९८॥ तेऽथ प्रियावियोगार्ताः पौरस्त्योदधिरोधसि । .. प्राग्गृहीतनिवासेन सङ्गच्छन्ते स्म शौरिणा ॥१९॥ अथ सुस्थितमारा मधीशं लवणोदधेः । प्रयतात्मा तपोऽकार्षीदरिष्टारातिरष्टमम् ॥१००॥ ततोऽभ्येत्याभ्यधाद्विष्णुं सुस्थितो रचिताञ्जलिः । कर्तव्याय मुरारे ! मां किंकुर्वाणमिवादिश ॥१०१॥ व्याजहार हरिभद्र ! केनचिद् द्रौपदी हृता । तदीया धातकीखण्डे किंवदन्तीव(च) विद्यते ॥१०२॥ तत्तथा किञ्चिदाधेहि सा प्रत्याहियते यथा । इत्याकर्ण्य हरेर्वाचमुवाच लवणाधिपः ॥१०३।।
15
25
१. अपरकङ्का प्रत्यन्तरे० ।