________________
-10
६७६]
[पाण्डवचरित्रमहाकाव्यम् । द्रौपद्या अपहरणम् ॥ स्त्रियो बभूवुर्याः काश्चित्समरे मृतभर्तृकाः । ताः सर्वाः प्रभुपादान्ते व्रतमाददिरे मुदा ॥७७॥ गान्धारीधृतराष्ट्रौ तु स्वामिवाग्ब्रह्मभावितौ । ससम्यक्त्वामगृह्णीतां श्रावकद्वादशव्रतीम् ॥७८॥ अन्येऽपि देशविरति केचिज्जगृहिरे क्षणात् ।। केचिच्च सर्वविरति स्वामिनश्चरणान्तिके ॥७९॥ व्यस्त्राक्षीद्देशनास्थानी समयेऽथ जगत्पतिः । शक्रधर्मसुताद्याश्च स्वं स्वं स्थानं ययुर्जनाः ॥८०॥ जगदम्भोजखण्डैकचण्डरश्मिस्ततो विभुः । व्यहार्षीदन्यतो हर्षात्स्वर्गिवगैरनुद्रुतः ॥८१॥ प्रभोर्वचनपीयूषरसनिर्यासवर्षिणः । आनन्दैकमयान्निन्युर्वासरान् पाण्डुसूनवः ॥८२॥ सम्पदामादिकन्दं च धर्मं नित्यमसूत्रयत् । तस्यापि बीजभूतं च न्यायमश्रान्तमाश्रयन् ॥८३॥ ते धर्मार्थाविरोधेन मिथः प्रणयिचेतसः (सा) । पाञ्चालसुतया साधु काममप्यकृतार्थयन् ॥८४॥ अन्येधुर्जगदालोककौतुकी नारदो मुनिः । द्रौपदीमन्दिरेऽभ्यागादकस्मात्पवनाध्वना ॥८५।। तया चाविरतस्यास्य न चक्रे काचिदर्हणा । तेनास्यामयमत्यन्तममर्षादित्यचिन्तयत् ॥८६॥ क्षेप्तव्येयं मयाऽवश्यं गम्भीरे दुःखसागरे । चिन्तयित्वेति पक्षीव तत्क्षणादुत्पपात सः ॥८७॥ प्रासादवलभौ सार्धमन्यदा धर्मसूनुना । सुखनिद्रायितां कश्चिज्जहार द्रुपदात्मजाम् ॥८८।। प्रातरालोक्य पल्यह्नं पाञ्चालीशून्यमात्मनः ।। सम्भ्रान्तो भूपतिः साकं सर्वेरप्यनुजन्मभिः ॥८९। आप्तैर्गवेषयामास वल्लभां तामितस्ततः । न पुनः क्वचिदद्राक्षुर्भूतले तेऽखिलेऽपि ताम् ॥१०॥
15
120
--25