SearchBrowseAboutContactDonate
Page Preview
Page 687
Loading...
Download File
Download File
Page Text
________________ 5 10 15 ६७२ ] 20 25 [ पाण्डवचरित्रमहाकाव्यम् । युधिष्ठिरादीनां गमनम् ॥ पदानि नवसु न्यस्यन्सुवर्णजलजन्मसु । एत्य प्रदक्षिणीकृत्य चैत्यधात्रीरुहं च तम् ॥२४॥ तीर्थाय नम इत्युच्चैरुच्चार्य भुवनप्रभुः । तस्मिन् सिंहासने दिव्ये श्रीमान्नेमिरुपाविशत् ॥२५॥ युग्मम् । मार्तण्डमण्डलज्योतिस् - तिरस्कारोद्यतद्युति । अनुमौलि क्षणादाविरासीद्भामण्डलं विभोः ॥२६॥ अन्तर्नगरमभ्येत्य झगित्युद्यानपालकः । प्रभोरागमनं धर्मसूनवेऽथ व्यजिज्ञपत् ॥२७॥ तस्मै च सपदि प्रीतमानसस्तपसः सुतः । द्वादशार्धयुता लक्षाः कलधौतस्य दत्तवान् ॥२८॥ गजस्थैरथ भीमाद्यैर्बान्धवैः परिवारितः । सेवामिलितसामन्तबलव्रातैरलंकृतः ॥२९॥ सैन्धवोद्धूतधूलीभिर्ध्यामलीकृतभास्करः । प्रेङ्खद्भिः करिसिन्धूरैर्दत्तसन्ध्याभ्रविभ्रमः ॥३०॥ पितृवर्गं पुरस्कृत्य दिव्यमारुह्य कुञ्जरम् । नमस्कर्तुं जगन्नाथं तत्कालमचलन्नृपः ॥३१॥ त्रिभिर्विशेषकम् । अनेकामन्त्रितैः पौरलोकैरालोकितो मुदा । स्वामिनो देशनावेश्म मेदिनीपतिरासदत् ॥ ३२॥ चामरादीनि संत्यज्य राज्यचिह्नानि दूरतः । विस्मयस्मेरितस्तस्मिन्नाविवेश विशांपतिः ॥३३॥ सुरासुरनरव्रातचातकश्रेणिसेवितम् । निःशेषमुपकुर्वाणं भुवनं देशनामृतैः ॥३४॥ भवघर्मर्तुसन्तापनिर्वापणसुधाम्बुदम् । पश्यति स्म तपःसूनुः स्वामिनं मुदितं पुरः ||३५|| [युग्मम्] त्रिश्च प्रदक्षिणीकृत्य प्रीतिपर्यश्रुलोचनः । मीलिताञ्जलिरारेभे स्तोतुमेवं महीपतिः ॥३६॥ १. सुवर्णकमलेषु । २. 'समस्तै ० ' प्रतिद्वये० ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy