SearchBrowseAboutContactDonate
Page Preview
Page 686
Loading...
Download File
Download File
Page Text
________________ [६७१ सप्तदशः सर्गः । समवसरणरचना ॥] क्षिपन्तः कर्मणां बन्धमात्मनो व्यन्तरामराः । बबन्धुरखिलं रत्नशिलाभिस्तन्महीतलम् ॥११॥ तस्मिंश्चतुर्दिशं रत्नद्युतिविद्योतिताम्बराम् । ते चतुस्तोरणी चक्रुर्ध्वजच्छत्रैरलंकृताम् ॥१२॥ प्रांशुज्योति:शिखाकीर्ण कपिशीर्षककैतवात् । तस्मिन्नभ्यन्तरे रत्नवप्रं वैमानिका व्यधुः ॥१३॥ मध्यमं मधुरं नानामाणिक्यकपिशीर्षकैः । प्राकारं ज्योतिषामीशास्तन्वते स्म हिरण्मयम् ॥१४॥ पिण्डिताभिरिव ज्योत्स्नावीचिभिः परिनिर्मितम् । कालधौतं बहि:शालं वितेनुर्भुवनाधिपाः ॥१५॥ माणिक्यशालभञ्जीभिर्भूषितानि समन्ततः । चत्वारि गोपुराण्यासन्प्रतिप्राकारमुच्चकैः ॥१६॥ बहिर्वप्रचतुर्दारी पुरस्ताद्विकचाम्बुजाः । चतस्रो दीर्घिकाः काम्या विचक्रुर्व्यन्तरामराः ॥१७॥ मध्यवप्रान्तरे पूर्वोत्तरस्यां दिशि सुन्दरम् । देवच्छन्दं वितेनुस्ते विश्रामाय जिनेशितुः ॥१८॥ मध्ये माणिक्यवप्रं ते चैत्यद्रुमविराजितम् । रत्नसिंहासनं रत्नपीठे प्राङ्मुखमादधुः ॥१९॥ त एव स्वामिनो विश्वत्रयसाम्राज्यबन्दिनीम् । तस्योपरिष्टादातेनुरातपत्रत्रयीं सिताम् ॥२०॥ समण्डलमिवायातं रविमात्मपुपूषया । तत्पुरस्ताद्विचक्रुस्ते धर्मचक्रमधिद्युति ॥२१॥ जगदद्वैततां नेतुराख्यातुमिव सर्वतः । ते माणिक्यमयं तस्य पुरो धर्मध्वजं व्यधुः ॥२२॥ देशनोवा॒ ततस्तस्यामधोनिक्षिप्तबन्धनाम् । पुष्पवृष्टिं किरन्ति स्म जानुदघ्नी दिवौकसः ॥२३॥
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy