________________
षोडशः सर्गः । पाण्डवादीनां निवर्तनम् ॥]
प्रावृषं शरदं चापि व्यतीत्य भगवानपि । भव्याब्जखण्डमार्तण्डो विजहार वसुन्धराम् ॥३५०|| अथ कथमपि तेऽपि प्रीतमापृच्छ्य कृष्णं त्रिभुवनगुरुवाचां सौरभं भावयन्तः ।
त्वरिततरमवापुश्चारुक्लृप्तोपचारां मुदितमुदितपौराः स्वां पुरीं पाण्डवेयाः ॥३५१||
[ ६६९
इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये श्रीनेमिविवाहोपक्रम - व्रत - केवलज्ञानवर्णनो नाम षोडशः सर्गः ॥ १६॥
5
10