SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 ६६८ ] [ पाण्डवचरित्रमहाकाव्यम् । नेमेः तीर्थस्थापना ॥ भवदावानलज्वालानिर्वापणनवाम्बुदः । विवेकिनो मन: केकिमुदे स्यात्सर्वसंयमः ॥ ३३६॥ निशम्य देशनामेनामेनोघ्नीं स्वामिनो मुखात् । उत्थाय प्रार्थयांञ्चक्रे वरदत्तनृपो व्रतम् ॥३३७॥ अथ तं दीक्षयामास करुणाम्भोनिधिः प्रभुः । अनुप्रव्रजितास्तं च द्वे सहस्रे नरेश्वराः ॥३३८॥ वरदत्तादिकांस्तेषु महोत्सवपुरःसरम् । अस्थापयत्प्रभुः प्राज्ञानेकादश गणेश्वरान् ॥३३९॥ जिनेन्द्रात् त्रिपदीं श्रुत्वा ध्रौव्योत्पादव्ययात्मिकाम् । तेऽतिप्रसृमरप्रज्ञा द्वादशाङ्गान्यसूत्रयन् ॥३४०॥ भूरिकन्यान्वितां राजपुत्रीं प्रव्राज्य यक्षिणीम् । न्यधत्त विधिवद्धर्मचक्रवर्ती प्रवर्तिनीम् ॥३४१॥ स्वाम्येकदत्तनयनां व्रतबद्धमनोरथाम् वीक्ष्य राजीमतीं दक्षः प्रभुः पप्रच्छ केशवः ॥३४२॥ प्रभो ! प्रीतिरतिस्फीता कस्य जागर्ति न त्वयि ? | राजीमत्यास्तु काऽप्येषा किन्तु वाङ्मनसातिगा ॥ ३४३ ॥ आत्मन्यनन्यसामान्यं राजीमत्यास्ततोऽखिलम् । भवाष्टकभवं प्रेम व्याजहार जिनेश्वरः ॥ ३४४॥ तस्याः प्रभुर्ददद्दीक्षामकरोत्प्रेमनिष्क्रयम् । महात्मस्वनुरागोऽपि भवत्येव शुभायतिः ॥ ३४५॥ दशार्हैरुग्रसेनाद्यैनरशैः केशवेन च । प्रद्युम्नाद्यैः कुमारैश्च श्राद्धधर्मोऽभ्यपद्यत ॥३४६॥ रोहिणी - देवकी - भामा-रुक्मिणीप्रमुखाः स्त्रियः । श्रावकत्वं विवेकिन्यः प्रभोः पार्श्वे प्रपेदिरे ॥३४७॥ एवं सभायामाद्यायां सङ्घः श्लाघ्यः प्रभोरभूत् । चतुर्विधश्चतसृणां प्रतिरोधक्षमो दिशाम् ॥३४८॥ नत्वा नाथं जगामाथ दिवं दिविषदां पतिः । हरिश्च पाण्डवैः सार्धं सबन्धु र्द्वारकां पुरीम् ॥३४९॥
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy