________________
द्वितीयः सर्गः । जरासंध-सिंहरथयो वृत्तान्तः॥]
तथा कलाभिस्तेनापि कुमारः पर्यचर्यत । समानमात्मनो मेने स यथा तमहर्निशम् ॥५१॥ अस्ति चात्र जरासंधो राजा राजगृहे पुरे । स्वैरं क्रीडति यस्याज्ञा त्रिखण्डक्षितिमण्डले ॥५२॥ विसृज्य दूतमेतेन भूमण्डलबिडौजसा ।। अकस्मात्स्वामिनोऽस्माकमादिष्टमिदमन्यदा ॥५३॥ अस्ति निर्व्याजशौण्डीर्यसिंह: सिंहपुरे पुरे । नृपः सिंहस्थो नाम स चाज्ञा नो न मन्यते ॥५४॥ जीवग्राहं गृहीत्वाऽमुं बद्ध्वा पाप्मानमानय । आनीते तत्र दास्यामि स्वां जीवयशसं सुताम् ॥५५॥ रुचिरं पुरमेकं च काञ्चनाञ्चितमन्दिरम् । ततो विसृज्य तं दूतं प्रतस्थेऽस्मत्प्रभुः स्वयम् ॥५६॥ युग्मम् । प्रणम्य वसुदेवोऽथ ज्येष्ठबन्धुं व्यजिज्ञपत् । किमिदं देव ! सिंहस्य चपेटोत्पाटनं मृगे ॥५७|| सति मय्यपि भृत्ये च स्वयं कोऽयमुपक्रमः । अरुणे प्रगुणे ध्वान्तं न ह्यपाकुरुते रविः ॥५८॥ एवमाबद्धनिर्बन्धं बान्धवं लघुमात्मवत् । वरूथिन्यामवस्थाप्य जयाय व्यसृजन्नृपः ॥५९॥ सोऽपि शौर्यावतंसेन कंसेन सह जग्मिवान् । बद्ध्वा सिंहरथं बन्धोदिनैरल्पैरुपानयत् ॥६०॥ कृत्वा जयोत्सवं यान्तं मुदा राजगृहं नृपम् । क्रोष्टकिः समभाषिष्ट ज्ञानी रहसि सानुजम् ॥६१॥ येयं जरासंधसुता कर्मण्यत्र पणीकृता । क्षयकृल्लक्षणैरेषा पितृश्वशुरपक्षयोः ॥६२॥ इत्यूचिवांसं विद्वांसं तं विसृज्य प्रजेश्वरः । ऊचे कुमारमारम्भः शुभोदर्कोऽस्ति नैष नः ॥६३॥
१. तव इति प्र० ।