SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ 10 ५२] [ पाण्डवचरित्रमहाकाव्यम् । कोरककथितो वृत्तान्तः ॥ तपोधमैकनिष्ठायाः पृथाया जात इत्यसौ । लेभे नाम्नी तपःसूनुर्धर्मसूनुरिति क्षितौ ॥३८॥ तस्य पश्चादजातारिरिति त्रैलोक्यविश्रुतम् । तेन तेनावदातेन नामधेयमजायत ॥३९॥ समाजग्मुर्महीपालैः प्रहितानि सहस्रशः । प्राभृतोनि सहस्राणि पाण्डोरात्मजजन्मनि ॥४०॥ उप्लायनमुपादाय कुन्त्याः पितृगृहादपि । आययौ विकसद्रोमकोरकः कोरकस्तदा ॥४१॥ गौरवाहविशेषेण तं पाण्डुपृथिवीपतिः ।। सत्कृत्य कृत्यनिष्णातः स्नेहसारमवार्तयत् ॥४२॥ महीतलमिलन्मौलिमाश्वास्य विहितानतिम् । कुन्ती नितान्तवात्सल्यात्पृच्छति स्मेति कोरकम् ॥४३॥ श्वश्रूभिः सकृदप्यस्मि न विसृष्टा पितुर्गृहे । तब्रूहि कुशलं कच्चिद्वन्धुवर्गस्य मेऽधुना ॥४४॥ बन्धुसन्तानवृद्ध्या च मामानन्दय सम्प्रति । इति पृष्टोऽभवद्धृष्टो व्याकरोति स्म कोरकः ॥४५॥ श्रूयतां देवि साम्राज्यं देवेनान्धकवृष्णिना । समुद्रविजये न्यस्य प्रव्रज्या स्वयमाददे ॥४६॥ भोजवृष्णेश्च तनयो मथुराराज्यमूर्जितम् । उग्रसेनः करोतीति प्रागपि ज्ञातवत्यसि ॥४७॥ ततःप्रभृति मे स्वामी समुद्रविजयोऽनुजान् । आत्मनोऽप्यधिकं पश्यन्नपाच्छौर्यपुरप्रजाः ॥४८॥ पूर्वोपार्जितसौभाग्यः स्वच्छन्दं व्यचरत्पुरे । वसुदेवकुमारस्तु रेमे बन्धुप्रसादतः ॥४९॥ अन्यदा वसुदेवस्य तत्रत्यः पुत्रमात्मनः । वणिक् सुभद्रं कंसाख्यमर्पयामास सेवकम् ॥५०॥ १. तानायाः प्रतिद्वय० । २. 'माश्वास्य' प्रतिद्वय । ३. पृष्टः सहृष्टोऽथ प्रतिद्वय । ४. विचरन्विहरन् इ प्रतौ । 15 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy