________________
[५१
द्वितीयः सर्गः । युधिष्ठिर जन्म ॥]
परोपकार: कारान्तःक्लान्तप्राणिविमोचनम् । मारिवारणमश्रान्तमयं तद्दोहदोदयः ॥२४॥ पत्युः प्रसादादेतस्याः सर्वोऽपूरिष्ट दोहदः । पाण्डौ भर्तरि लोकेषु तस्याः किं नाम दुर्लभम् ॥२५॥ अथ ज्येष्ठायुते चन्द्रे वारे मङ्गलनामनि । वृश्चिकाख्ये शुभे राशावुच्चस्थेषु ग्रहेष्वपि ॥२६॥ अजायत सुतस्तस्या मुहूर्ते तत्र कुत्रचित् । आक्रान्तचतुराशान्ता जायन्ते यत्र चक्रिणः ॥२७॥ युग्मम परां तज्जन्मनि प्रीति स्थावराणि चराणि च ।। भूतान्यनुभवन्ति स्म सर्वमत्यद्भुतं सताम् ॥२८॥ - भीष्मं च धृतराष्ट्रं च पाण्डं च विदुरं तथा । दिष्ट्याऽमून्वर्धयामासुर्जनाः शुद्धान्तवासिनः ॥२९॥ अम्बालिकाम्बिकाम्बानां सत्यवत्याश्च सत्वरम् । गत्वा दास्यः प्रसन्नास्याः पुत्रजन्म न्यवेदयन् ॥३॥ जातमात्रे सुते तस्मिन्बालार्कसमतेजसि । उच्चचार वियत्युच्चैरशरीरा सरस्वती ॥३१॥ असौ सत्यवतां मुख्यः सतामय्यः समग्रधीः । शौण्डीर्यस्थैर्यगाम्भीर्यवसतिर्विनयी नयी ॥३२॥ धर्मबद्धरतिभूपः सार्वभौमो भविष्यति । वार्द्धके व्रतमादाय निर्वाणं च गमिष्यति ॥३३॥ युग्मम् । तत्समाकर्णनान्न स्युर्भीष्मादीनां मुदः कथम् ? । अपरेषामपि तदा हर्षं नाख्यातुमीश्महे ॥३४॥ स्वयमेव पुरे पौरैरुत्सवो निर्मितस्तदा । आदेशस्तु विशांपत्युरभवत्सिद्धसाधनम् ॥३५॥ निःशेषदिविषद्वर्गप्रमोदपिशुनास्तदा । समाकर्ण्यत सानन्दं दुन्दुभिध्वनयो दिवि ॥३६॥ सुतस्य तस्य भीष्माद्यैः किञ्चिद्वीक्ष्याङ्गलक्षणम् । युधिष्ठिर इति श्लाघ्यमन्वर्थं नाम निर्ममे ॥३७॥
20
25