________________
षोडशः सर्गः । राजीमत्याः शोकः ॥ ]
नानासांसारिकक्लेशसाक्षात्कारकदर्थिताः । गृहत्यागोन्मुखं नेमिं पाण्डवास्तुष्टुवुर्मुहुः ॥२७०॥ प्रत्यावृत्ते वरे तस्मिन्सानुरागे तपः श्रियाम् । लतेव परशुच्छिन्ना राजीमत्यपतद्भुवि ॥२७१॥ सखीशीतोपचारेण सा पुनः प्राप्य चेतनाम् । विलापांस्तुमुलांश्चक्रे कृतं हा दैव ! किं त्वया ? ॥२७२॥
भोगेभ्यो विमुखी मन्ये दातुं दुःखमिदं त्वया । दर्शयित्वा वरं नेमिं कृताऽहं भोगसम्मुखी ॥ २७३॥ प्राप्येतन्मया ज्ञातं नायं मे भविता वरः । आरोहति कटुस्तुम्बी किमु कल्पमहीरुहम् ? ॥ २७४॥ आत्मैकशरणं स्वामिन् ! मामादृत्या त्यजः कथम् ? । जहाति जातु नाङ्कस्थं शशमप्याहतं शशी ॥ २७५॥ भूर्भुवः स्वस्त्रयेऽप्येकस्त्वमासीत् कल्पपादपः । मां तु प्रत्यन्यथाकारं कथङ्कारमभूः प्रभो ! ? ॥२७६॥ अरण्यमालतीपुष्पत्पुष्पसब्रह्मचारिभिः ।
नाथ ! त्वया विमुक्तायाः किमेभिर्मम भूषणैः ? ॥२७७॥ स्वामिन् ! मनोहरेणापि हारेण किमनेन मे । कन्दर्पकलहे येन कण्ठे पाशायितं न ते ॥२७८॥ इमे रत्नमये स्वामिन्! कुण्डले मे विडम्बना । न ये रहसि सोल्लुण्ठे लुलिते त्वत्कपोलयोः ॥२७९॥
एषा सम्प्रति दुःखाय मेखला मे खला खलु । नैव या रहसि स्पृष्टा पाणिना प्रणयात्त्वया ॥ २८०॥ एतौ बहुद्युती बाह्वोर्मम रत्नाङ्गदौ दौ । निर्ममज्जतुराश्लेषे न यौ ते कण्ठकन्दले ॥२८१॥ इति नेमिं प्रति प्रेम्णा व्याहरन्ती मुहुर्मुहुः । तत्याज सर्वमाकल्पजातं राजीमती तदा ॥ २८२॥
१. रोगौ । २. अलङ्कारसमूहम् ।
[ ६६३
10
5
10
15
20
25