SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ षोडशः--सर्गः । शिवादेवीकृता नेमिकुमारस्यविज्ञप्तिः ॥ ] हसन्नेमिकुमारोऽथ निजगाद जनार्दनम् । किमानन्दपदे पित्रोः शोकशङ्कुमुदाहरः ? ॥२४३॥ यमजिह्वोपमस्फूर्जज्ज्वालाजालात् प्रदीपनात् । निर्गच्छति सुते पित्रोः किमानन्दो न जायते ? ॥ २४४॥ निर्यन्नपारसंसारप्रज्वलज्ज्वलनोदरात् । ततोऽहं किमु न प्रीत्यै पित्रोर्मत्सुखकाङ्क्षिणोः ? ॥ २४५ ॥ यदि भागहरौ स्यातां पितरौ मम कर्मणाम् । ध्रुवं तदा तदादेशात्स्वीकुर्यां कार्यमीदृशम् ॥ २४६॥ परं न कोऽपि कस्यापि भागहृत्कर्मणां भवेत् । आ रङ्गशक्रतः सर्वैः कर्म स्वं स्वं तु भुज्यते ॥२४७॥ कषायविषयाहूतैरेतैर्हृन्मर्मभेदिभिः । ढौक्यन्ते यानि दुःखानि तेभ्यो विभ्यत्तपः श्रये ॥ २४८॥ निःशेषसदनुष्ठानज्यायसस्तपसः खलु । तिमिरारेस्तमांसीव नश्यन्त्येतानि दूरतः ॥ २४९॥ अथ माता शिवादेवी पर्यश्रुर्नेमिमभ्यधात् । सुकुमारः कथं वत्स ! सोढासि क्लेशमीदृशम् ॥२५०॥ आतपोऽनातपत्रस्य वपुर्बाधिष्यते तव । हा ! शीतं च हेमन्ते तादृगावरणं विना ॥२५९॥ काननेष्वनगारेण प्रत्यूहो देहवानिव । सहनीयस्त्वया वत्स ! वर्षावारिभरः कथम् ? ॥ २५२ ॥ याञ्चानाराचदुष्प्रेक्षां परीषहमहाचमूम् । कथं त्वमभिधावन्तीमसहाय: सहिष्यसे ? ॥२५३॥ केशहस्तं मया हस्तैर्निजैः संवर्धितं स्वयम् । कथं भ्रमरसंकाशमेनमुत्पाटयिष्यसि ? ॥२५४॥ अथोचे जननीं नेमिर्मातः ! सत्यमसन्त्यपि । दुःखानि 'पुत्रभाण्डानां प्रीतिर्वो दर्शयत्यसौ ॥२५५॥ जीवोऽयं यां पराधीनः सहते दुःखसंहतिम् । तामेतामात्मतन्त्रश्चेत्किं न मुच्येत बन्धनात् ? ॥ २५६॥ [ ६६१ 5 10 15 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy