SearchBrowseAboutContactDonate
Page Preview
Page 674
Loading...
Download File
Download File
Page Text
________________ षोडशः सर्गः । श्रीनेमिकुमारस्य करुणाः ॥] जानतोऽपि कुमारस्य सूतस्तथ्यमचीकथत् । नन्वेते सर्वजातीया जन्तवः सन्त्युपाहृताः ॥२१७॥ एते हि तव वीवाहे यादवानामनेकशः । मांस्पाकगौरवं कर्तुं भोजेनानिन्यिरे मुदा ॥२१८॥ अथाऽऽह स्म वहन् नेमिः कृपाकण्टकितं वपुः । हहा ! धिगेष संसारः सागरः सर्वपाप्मनाम् ॥ २१९॥ तदेते यत्र तत्रायं नीयतां सारथे ! रथः । स्वच्छन्दचारिता भूयोऽप्यमीभिरनुभूयताम् ॥२२०॥ ततः सपदि सूतेन तदादेशात्तथा कृते । चिक्षेप चक्षुषी नेमिस्तमभि प्राणिवाटकम् ॥२२१॥ तत्र कांश्चिद्गले बद्धान् पदे बद्धांश्च कांश्चन । कांश्चिच्च पञ्जरे क्षिप्तान्दीनवक्त्रान्ददर्श सः ॥२२२॥ नेमिमालोक्य ते विश्वप्रियंभावुकदर्शनम् । पाहि पाहीति पूच्चक्रुः सर्वेऽपि स्वस्वभाषया ॥२२३॥ जीवांस्तान्मोचयामास नेमिः कारुणिकाग्रणीः । न्यवर्तयच्च निर्वेदात्स्यन्दनं सदनं प्रति ॥ २२४॥ समुद्रविजयः कृष्णः सीरपाणिः परेऽपि च । शिवाद्याश्च स्त्रियस्त्यक्तयानास्तत्पुरतोऽभवन् ॥२२५॥ ततः समं शिवादेव्या समुद्रविजयोऽवदत् । कस्मादकस्मादेवास्माद्विमुखोऽभूस्त्वमुत्सवात् ॥२२६॥ नेमिर्जगाद तातामून्प्राणिनो भटवेष्टितान् । दृष्ट्वाऽद्राक्षं विपक्षौघैरात्मानमपि वेष्टितम् ॥ २२७॥ स्वमुद्वेष्टयितुं तेभ्यो यतिष्ये तदतः परम् । विपक्षाक्रान्तमात्मानं सुधीर्ननु सहेत कः ? ॥ २२८॥ क्व नु ते रिपवस्तात ! प्रलप्यालमिदं ततः । एवमाभाषितस्ताभ्यां नेमिः पुनरभाषत ॥२२९॥ १. 'कारणं' प्रतिद्वये । [ ६५९ 5 10 15 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy