________________
5
10
15
६५८ ]
20
25
[ पाण्डवचरित्रमहाकाव्यम् । राजीमत्यै दुर्निमित्तानि ॥ नेत्राम्भोजैश्च लाजैश्च कीर्यमाणः पदे पदे । श्लाघ्यमानचरित्रश्च दूरं पौराङ्गनाजनैः ॥२०३॥ स्फारं प्रत्यापणद्वारं प्रतीच्छन्मङ्गलं मुहुः । उग्रसेनगृहाभ्यर्णभूमिमभ्याययौ वरः ॥२०४॥ युग्मम् | तदभ्यागमसम्भृतैस्तैस्तैः कलकलैः कलैः । मुदं राजीमती प्राप केकिनीवाब्दशब्दितैः ॥२०५॥ सूत्र्यतां चिररात्राय नेत्रयोः सखि ! पारणम् । इत्यालप्य वयस्यास्तां मार्गवातायनेऽनयन् ॥ २०६॥ तमष्टभवभर्तारं कुमारं वीक्ष्य सस्पृहा । सा तदापदनिर्वाच्यामानन्दास्यन्दनीं दशाम् ॥२०७॥ सस्तम्भं सहरोमाञ्चं सस्वेदं सहवेपथु । नव्यनव्योल्लसद्भावं बिभरामास सा वपुः ॥२०८॥ क्षणादथ वितीर्णौष्ठवैवर्ण्याः क्लमितस्रजः । प्रसरन्ति स्म निःश्वासा राजीमत्या मुखाम्बुजात् ॥ २०९॥ तमाकस्मिकमुत्पातं विलोक्यात्यन्तमाकुलाः । श्यामीभवन्मुखाः सख्यः पप्रच्छुस्तां समुत्सुकाः ॥२१०॥ हहा ! सखि ! किमेतत्ते दुर्निमित्तमुपस्थितम् ? । निषसाद विषादोऽयं यदानन्दपदे तव ॥२११॥
सा जल्पति स्म सख्यः ! किं निर्भाग्या कथयामि वः ? | स्पन्दते दक्षिणं चक्षूरूरुः स्फुरति दक्षिणः ॥ २१२ ॥ सख्योऽवोचन्वचस्ते धिक् सखि ! शान्तममङ्गलम् । सर्वतोऽपि करिष्यन्ति कुशलं कुलदेवताः ॥२१३॥ मुञ्चान्यदभिषिञ्च स्वं स्वभर्तुर्दर्शनामृतैः । सन्तापस्य तवास्य स्तादिदमेव महौषधम् ॥ २१४॥ इति प्रह्वीकृता यावत्सखीभिः सा विलोकते । लोकारब्धस्तवस्तावद्वरो दृङ्मार्गमभ्यगात् ॥२१५॥ स च गच्छन्पुरोऽश्रौषीद्विक्लवं तुमुलस्वरम् । इत्थमार्तध्वनिः कोऽयमित्यप्राक्षीच्च सारथिम् ॥ २१६ ॥