________________
[६५७
षोडशः सर्गः । श्रीनेमिकुमारस्य विवाहाय गमनम् ॥]
न विश्वसिमि भाग्यानामियत्यपि गते परम् । वधूरेतादृशी गेहं यन्ममालंकरिष्यति ॥१९०।। साऽथ स्त्रीभिः शिवादेशादलंकर्तुं विभूषणैः । समारभ्यत वर्षाभिः कुसुमैरिव मालती ॥१९१॥ सर्वाङ्गालङ्कृता कामं रेजे राजीमती तदा । सरसीव नवोत्फुल्लकैरवाराममण्डिता ॥१९२॥ आकल्पैः पीवरश्रीकं सा मुहुर्वीक्ष्य दर्पणे । रोचिष्यमाणमात्मानं नेमये समभावयत् ॥१९३॥ ततोऽन्तर्मातृकागारमवस्थाप्य वधूं मुदा ।। शिवादयः प्रमोदेन वरान्तिकमुपाययुः ॥१९४॥ ततश्चन्दनलिप्ताङ्गो मुक्ताभरणभूषितः ।। वर: प्रीणितनेत्राणि पारिणेत्राणि पर्यधात् ॥१९५॥ मौलौ धृतसितच्छत्रो वारस्त्रीधृतचामरः । परिणेतुं प्रतस्थेऽथ स्थितो रथवरे वरः ॥१९६।। केऽपि स्तम्बेरमान्केऽपि रथान्केऽपि तुरङ्गमान् । आरूढाः प्रौढलक्ष्मीकाः कुमाराः पुरतोऽचलन् ॥१९७॥ अन्ये प्रचेलुराकल्पपराजितविडौजसः । आरुखैरावणनिभानिभानुभयतो नृपाः ॥१९८॥ रामकृष्णौ दशार्दाश्च वर्षीयांसस्तथाऽपरे । आरुह्य कुञ्जरप्रष्ठान्पृष्ठतस्तु प्रतस्थिरे ॥१९९।। प्रास्थायि स्वैरमास्थाय शिबिकाः स्यूतमौक्तिकाः । कुन्तीशिवादिभिस्तेषां पश्चाद्वैवाहिनीजनैः ॥२००।। इभबृंहितमश्वीयहेषा तूर्यरवा अपि ।। समन्ततोऽप्यधीयन्त तासां मङ्गलगीतिभिः ॥२०१॥ तानि तान्यवदानानि गुणैर्जितसितद्युतेः । पेठुर्नेमिकुमारस्य प्रीता वैतालिकाः पुरः ॥२०२॥ १. परिणेतृसंबन्धीनि अलंकारादीनि । २. पराक्रमान् ।