SearchBrowseAboutContactDonate
Page Preview
Page 671
Loading...
Download File
Download File
Page Text
________________ 5 10 115 20 25 ६५६ ] [ पाण्डवचरित्रमहाकाव्यम् । श्रीनेमिकुमारस्यविवाहसामग्री ॥ पाणावर्पितनाराचं बद्धप्रतिसरं वरम् । शिवायाः प्रेक्षमाणायास्तृप्तिरासीन्न नेत्रयोः ॥ १७७॥ वध्वाः प्रसाधनकृते शिवाकुन्त्यादयस्ततः । बहलोलूलकल्लोलमुग्रसेनगृहं ययुः ॥१७८॥ तत्र साभ्यङ्गनेपथ्यां तां करोपात्तसायकाम् । वृद्धाः सिद्धार्थमूर्द्धानं स्त्रियः कन्यामसिस्नपन् ॥१७९॥ धवलक्षौमवसनां बद्धाश्यामशिरोरुहाम् । प्रसाधनाय सैरंध्रयस्तां चतुष्के न्यवेशयन् ॥१८०॥ नैसर्गिकवधूरूपपानैकरसमानसा । प्रसाधनविलम्बाय सस्पृहाऽभूत्क्षणं शिवा ॥ १८१॥ कुन्त्याश्च दर्शयामास वध्वाः स्वाभाविकीं श्रियम् । देवि ! पश्यालिकालिम्ना स्पर्द्धतेऽस्याः कचोच्चयः ॥१८२॥ अष्टमीशशिनः शोभा भालेन परिभूयते । कर्णान्तेवासिनी नेत्रे विभ्रमाभ्यासशालिनी ॥ १८३॥ हक्सुधादीर्घिकातीरवल्लीलीलाभृतौ ध्रुवौ । जगद्हष्टिमृगीपाशौ कर्णपाशौ न संशयः ॥ १८४ ॥ नयनोत्पलनालश्रीर्नासावंशो विलोक्यताम् । कपोलफलकावेतौ स्फारकाविव मान्मथौ ॥ १८५ ॥ ग्रीवा रतिपतेर्जैत्रयात्राकम्बुविडम्बनी । मृणालकन्दलीलक्ष्मीलुण्टाकललितौ भुजौ ॥१८६॥ वक्षोऽवनेस्तु किं नाम जगत्यौपम्यमञ्चति । मुष्टिरप्यस्य मध्यस्य माने मन्येऽतिभूयसी ॥ १८७॥ दत्ता तद्भङ्गभीत्येव रोमाली लोहपट्टिका । कीर्तिस्तम्भोपमावुरू मधूरनशिल्पिनः ॥१८८॥ जङ्घे लङ्घयतः सर्वमुपमागोचरीकृतम् । पादौ च हसतः पद्मवासां लक्ष्मीं नखांशुभिः ॥ १८९॥ १. सुवर्णबुद्बुदौ । २. 'वक्षोवनेऽस्तु'–प्रत्यन्तरे ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy