SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ षोडशः सर्गः । राजीमती - याचना ॥ ] अथ तीर्थंकरोऽस्मीति नेमे ! ऽस्मानवमन्यसे । नाभेयाद्यैर्न किं पूर्वं बभूवे गृहमेधिभिः ? ॥१३६॥ इति तद्वचसा नीते कुमारे सुकुमारताम् । आजग्मतुः शिवादेवीसमुद्रविजयौ जवात् ॥१३७॥ अवादीच्च शिवादेवी बलिर्नयनयोस्तव । म्रियेऽहं तव रूपस्य जीव कल्पशतानि च ॥१३८॥ सकलाभिः कलाभिश्च ज्ञानेन च नयेन च । मत्सुतस्य समो नास्ति कोऽपि क्वापि भुवस्तले ॥१३९॥ तात ! मातरमात्मीयां प्रार्थनाभङ्गदुर्मुखीम् । मा कृथाः सर्वथाऽर्थेऽस्मिंस्तद्धृतोऽसिभुजेऽधुना ॥ १४०॥ इत्युक्त्वा लम्बिते बाहौ तया नेमिरचिन्तयत् । पश्याहो सङ्कटं कीदृग् जातमस्मादृशामपि ? ॥ १४१ ॥ एकत: कुरुते माता मम पाणिग्रहाग्रहम् । तीर्थप्रवर्तनं कार्यमनूढेन मयाऽन्यतः ॥१४२॥ यो वा केवलिभिर्दृष्टः सोऽर्थोऽवश्यं भविष्यति । अनतिक्रमणीया तु मातुराज्ञा मनस्विनाम् ॥१४३॥ इत्यालोच्य वचो मातुर्नेमिश्च प्रत्यपद्यत । सानन्दः सपरीवारः केशवश्चाविशत्पुरीम् ॥१४४॥ योग्यां राजीमतीं नेमेः सोऽथ सर्वाभिसम्मताम् । प्रहित्य चतुरामात्यमुग्रसेनमयाचत ॥१४५॥ प्राचीनजन्मसम्बन्धाद् गुणौघ श्रवणादपि । दर्शनाच्च क्वचिन्नेमेः पूर्वमप्यनुरागिणी ॥ १४६ ॥ ददौ सोऽपि कुमाराय कुमारीं तां प्रहर्षुलः । अमूदृशाय जामात्रे सचेताः स्पृहयेन्न कः ॥ १४७॥ युग्मम् । अथ कंसारिणा लग्नं पृष्टः क्रोष्टुकिरभ्यधात् । उत्तालजलदः कालः प्रवृत्तो देव ! सम्प्रति ॥ १४८॥ कुशलैरत्र कार्याणि न कार्याण्यपराण्यपि । किं पुनः पुण्यपात्राणां पाणिग्रहमहोत्सवः ? ॥१४९॥ [ ६५३ 5 10 155 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy