________________
[६५१
षोडशः सर्गः । नेमिकुमारस्य जलक्रीडा ॥]
स्मरभोगिफणाकल्परत्नशृङ्गकपाणयः । वीतक्री(वी)डा जलक्रीडां तेनिरे ते परस्परम् ॥११०॥ शाङ्गिणा शृङ्गिकाम्भोभिर्भामा भृशमताड्यत । अपरासां तु सर्वासां व्यथाऽभवदरुंतुदा ॥१११॥ आहन्यत स्तनोत्सङ्गे रुक्मिणी चक्रपाणिना । अपराभिः कृता:पैदृष्टिक्षेपैरयं पुनः ॥११२॥ सुपर्णकेतुसङ्केतात् ताः समं नेमिनं प्रति । उदस्य जलशृङ्गाणि सशृङ्गारं डुढौकिरे ॥११३॥ जितमारः कुमारोऽपि प्रत्यैच्छत्तं जलप्लवम् । दक्षाणामपि दुर्लक्षास्तादृशानां प्रवृत्तयः ॥११४॥ नीव्यां नेमिजलाघातशिथिलायामपि क्षणम् । सखीभिरिव भामायाः क्षौममद्भिरधार्यत ॥११५॥ नेमिनीराहतिक्षोभत्रुटत्कञ्चुकबन्धना । लज्जमाना ययौ वापीतीरदेशाय रुक्मिणी ॥११६।। कपोतफलके काचित्काचिद्वक्षोजकुट्टिमे । आरोहपलिने काचिन्नेमिना सिषिचे जलैः ॥११७॥ जलकेलिभरे तत्र तास्तांस्तानथ विभ्रमान् । प्रादुश्चक्रुः कुमारस्य स्मरजागरहेतवे ॥११८॥ यान्त्येव जलसंसर्गाद् गुणिनोऽपि विपर्ययम् । मन्ये निवसनैस्तासां तेन सार्थोऽप्यमुच्यत ॥११९॥ तथाऽपि मदनो नेमेनॊन्मिमील मनागपि । सर्वथाभाविनं तस्मादात्मोच्छेदं विदन्निव ॥१२०।। मुदा जाम्बवतीदत्तकरालम्बः शनैः शनैः । उत्ततार कुमारोऽथ पुष्करिण्यास्तटीभुवि ॥१२१॥ तस्यानुपदमुत्तेरुर्दामोदरकृशोदराः । वमन्त्य इव लावण्यं चेलश्च्योतज्जलच्छलात् ॥१२२॥
१. आरोह:-नितम्बः । २. वस्त्रात् क्षरतो जलस्य मिषात् ।