________________
[६४७
षोडशः सर्गः । कृष्णस्य चिन्ता ॥]
पूर्वं करेण सावज्ञं करीन्द्र इव केशवः ।। स्थानाच्चालयितुं नेमेरारेभे भुजवल्लरीम् ॥५४॥ आकुञ्च्य चरणौ पश्चात्सारसर्वाभिसारतः । ललम्बे नेमिदो:स्तम्भे कृष्णः कपिरिव द्रुमे ॥५५।। न च नेमिभुजस्तम्भः सूत्रमात्रमपि क्वचित् ।। स्थानाच्चचाल, किं मेरोश्चूला चलति वात्यया ? ॥५६॥ गुणगृह्यो मुदा भ्रातुरोजोऽतिशयजन्मना । विमुच्य दोर्लतां नेमिमालिलिङ्ग हरिर्मुहुः ॥५७।। अवदच्च लसच्चेताः श्लाघ्यं बन्धो ! कुलं हि नः । पवित्रे यत्र जातोऽसि त्वमसामान्यविक्रमः ॥५८॥ मामकीनेन दो:स्थाम्ना यथा रामः प्रमोदते । तथाऽहं तावकीनेन त्रैलोक्योपरिवर्तिना ॥५९॥ श्लाघामित्यावहन्नेमि विसृज्याऽऽलयमीयिवान् । मनसो विश्रमारामं रामं पप्रच्छ केशवः ॥६०॥ दृष्टमार्य ! त्वयाऽऽश्चर्यं नेमिनो मेऽनुजन्मनः ? । योऽमुष्य विक्रमः सोऽस्ति न शक्रस्य न चक्रिणः ॥६१॥ तदसौ निजशौर्येण विश्वविश्वातिशायिना । कथं न साधयत्येतां षटखण्डामपि मेदिनीम् ? ॥६२॥ सीरपाणिरथाभाणीन्मुरारे मे स्मरत्यदः । यदा देव्याः शिवादेव्या गर्भे नेमिरवातरत् ॥६३॥ चतुर्दश तदास्वप्नास्तदा ददृशिरे तया । एतैर्नैमित्तिकैः सर्वैरित्थं च व्याचचक्षिरे ॥६४॥ शुभैरेभिर्महास्वप्नैर्जेता बाह्यान्तरद्विषाम् । . चक्री वा धर्मचक्री वा सुतो देव्या भविष्यति ॥६५॥ एतयोदात्तया मूर्त्या निर्विकारतया तया ।। कृपालुत्वेन चानेन मन्ये तत्सैष तीर्थकृत् ॥६६॥ अत्रान्तरेऽजनि व्योम्नि श्राव्यवर्णा सरस्वती । कृतमेतैरनल्पैर्वा विकल्पै रामकेशवौ ! ॥६७॥
15
20
25