________________
10
६४६]
[पाण्डवचरित्रमहाकाव्यम् । नेमि-कृष्णयोः क्रीडा ॥ उत्तंसः सर्ववंशानां हरिवंशः परं भुवि । यस्तेजस्विभिरीक्षैर्नररत्नैरलंकृतः ॥४०॥ इत्यालोचयति प्रीत्या हरौ विश्वमनोहरः । अनुत्सुको निरुत्सेकः सभामेयाय नेम्यपि ॥४१॥ सर्वमज्ञातपूर्वी च प्रकृत्या प्रियबान्धवः । कुमारमनुयुङ्क्ते स्म प्रश्रयेण नरायणः ॥४२॥ भ्रातर्विश्वम्भराभोगसम्भ्रमभ्रमिकारणम् । किस्विदूर्जस्विनिर्घोषः शङ्खोऽयं पूरितस्त्वया ? ॥४३॥ तं शिर:कम्पनेनैव दत्तप्रत्युत्तरं हरिः । प्रत्यङ्गमुत्थितस्थूलपुलकः पुनरब्रवीत् ॥४४॥ दूरेऽन्यभूभुजो भ्रातः ! शङ्के ध्माते त्वयाऽधुना । असंस्तुतचरः क्षोभो रामस्यापि मनस्यभूत् ॥४५॥ तदस्मि तव दोःस्थामविलोकनकुतूहली । मुहूर्तमावयोरेव नियुद्धं जायतां ततः ॥४६।। तथेति निर्विकारेण कुमारेण प्रतिश्रुते । तं प्रहृष्टो हरिर्बाहौ गृहीत्वा खुरलीं ययौ ॥४७॥ उभयाभिमते रामे सभाभर्तरि तस्थुषि । चाणूरचूरणो मल्लयुद्धाय समनह्यत ॥४८॥ दृष्ट्वा तथाऽध्यवस्यन्तमन्तकं केशिकंसयोः । अस्ताघबलदो:स्तम्भो नेमिर्गम्भीरमभ्यधात् ॥४९॥ भरतार्धपते ! युद्धमेतन्नीचजनोचितम् । किं वृथा पृथिवीपांशुपांशुराक्रियते तनुः ॥५०॥ तन्मुरारे ! भुजस्तम्भवालनेनैव केवलम् । अन्योऽन्यमावयोरस्तु सारसर्वस्ववीक्षणम् ॥५१॥ इत्यूरीकृत्य गोविन्दः श्रीवशाऽऽलानमञ्जुलम् । त्रिखण्डरक्षापरिघं भुजं तिर्यगधारयत् ॥५२॥ तं नेमिर्जालनलिनीतन्तुचालमचालयत् । स्वं च प्रसारयाञ्चक्रे भूधरेन्द्रनिभं भुजम् ॥५३॥
20
25