________________
षोडशः सर्गः । नेमिकुमारस्य क्रीडा ॥]
पश्यत्येवातिसम्भ्रान्ते रामे रामानुजेऽपि च । निखिलोऽप्युच्छलन्मूर्च्छः पपात परिषज्जनः ||२६|| क्षोभाच्च विस्मयाच्चाथ चिन्तयामास केशवः । किमसौ स्फूर्जथुः ? किं वा प्रलयाम्भोधरध्वनिः ? ॥२७॥ किञ्चासौ पाञ्चजन्यस्य जन्यव्योमविधो ध्वनिः । तदयुक्तं यतो नायमगोविन्देन वाद्यते ॥२८॥ इत्यूहव्याकुले कृष्णे चारुकृष्णाभिधः क्षणात् । एत्याऽऽयुधगृहारक्षस्तं प्रणम्य व्यजिज्ञपत् ॥२९॥ देव ! नेमिः कुमाराणां गणेन परिवारितः । त्वदीये त्वमिवेदानीं विवेशाऽऽयुधवेश्मनि ॥३०॥
दृशं सुदर्शने शाङ्ग् गदायामथ नन्दके । स व्यापार्य निचिक्षेप पाञ्चजन्ये पुनः पुनः ॥३१॥ तत्पूरणे कृताऽऽकूतो जिघृक्षुः सोऽक्षिपत्करम् । अहं च हस्तमुद्यम्य तमेत्यावोचमुच्चकैः ॥३२॥ किं कुमार ! प्रयासेन निष्फलेन तवामुना ? । जायते यो न हासाय स एवोदस्यते भरः ॥३३॥ आदातुमप्यलम्भूष्णुर्विष्णुरेनं हि नापरः । मुखमारुतपूरेण दूरे पूरयितुं पुनः ॥३४॥ मयैवं वार्यमाणोऽपि तं करेण करेणुवत् । नेमिर्भुजोष्मणा चण्डः पुण्डरीकमिवाग्रहीत् ॥३५॥ नेमिना स्थापितः सोऽथ बन्धूकमधुरेऽधरे । रक्तोत्पलदले खेलत्कलहंस इवाबभौ ॥३६॥ हेलोत्फुल्लकपोलेन तेनासौ पूरितस्तथा । यथा मूर्च्छामगच्छाम वयं सर्वेऽपि यामिकाः ॥३७॥
क्रमादथाप्तचैतन्यस्त्वदन्तिकमुपागमम् । इत्याख्याय गते तस्मिन्मुदा हरिरचिन्तयत् ॥३८॥
नेमिरस्मत्कुले रम्ये चक्रवर्त्यपद्यत । पाञ्चजन्ये मयाऽऽध्माते नादो नेदृक्कदाऽप्यभूत् ॥३९॥
[ ६४५
5
10
15
20
25