________________
षोडशः सर्गः । शिवादेव्याः चिन्ता ॥ ]
षोडशः सर्गः ॥
1:
गोविन्दराजकल्पद्रुकोरक: कोरकोऽन्यदा । अध्यूषिवांसमास्थानमुपतस्थे युधिष्ठिरम् ॥१॥ प्रणम्यासन्नमासीनमुर्वीशः पूर्वसंस्तुतम् । तमभ्यागमने हेतुमन्वयुङ्क्त प्रियोक्तिभिः ॥२॥ सोऽप्यूचे प्राप्य वः पूजां तदानीमीयिवानितः । अलका - स्वः पुरीजिष्णुविष्णुः स्वामविशत्पुरीम् ॥३॥ कंसध्वंसी जरासंधदण्डभृत्पाण्डवप्रियः । इत्यादिबिरुदालीभिर्बन्दिवृन्दैः स गीयते ॥४॥ दलितारातिना तेन राजन्वत्यां मुरद्विषा । द्वारवत्यां निरातङ्का स्वैरं क्रीडन्ति यादवाः ॥ ५ ॥ विचेरुः केचिदुद्याने वापीषु व्यलसन्परे । क्रीडाद्रौ केऽपि चिक्रीडुर्नवोढदयिताऽन्विताः ॥६॥ श्रीमन्नेमिकुमारस्तु गुणैर्विश्वविलक्षणः । शान्तचेताः क्वचिन्नैव रमतेऽन्यकुमारवत् ॥७॥ अलौकिकं तमालोक्य विषयेभ्यः पराङ्मुखम् । खेदादूचे शिवादेवी समुद्रविजयं ततः ॥ ८ ॥ धन्यास्ता मातरः सार्धं वधूभिः खेलतः सुतान् । पश्यन्त्यो याः सुधामैत्रीं सूत्रयन्ति स्वनेत्रयोः ॥९॥ एकैवाहमधन्यास्मि जगत्यद्यापि हन्त या । न पश्यामि स्वपुत्रस्य वधूटीवदनाम्बुजम् ॥१०॥ तदार्यपुत्र ! सम्बोध्य तनूजः परिणाय्यताम् । स्यां नृत्यन्ती महे तत्र यथा पूर्णमनोरथा ॥११॥
[ ६४३
5
10
15
20