________________
६४२]
[पाण्डवचरित्रमहाकाव्यम् । गाङ्गेयमुनेः स्वर्गमनम् ॥ ततः किं बहुना ? तात ! सर्वं नः क्षन्तुमर्हसि । गुरूणां नैव कोपाय डिम्भानां दुर्नयोऽपि हि ॥११९॥ क्षमयित्वेति गाङ्गेयं स्थितेष्वपरबन्धुषु । एको भूयोऽपि निर्व्याजं व्याजहार धनंजयः ॥१२०॥ एते त्वदङ्गसंसक्ता मन्नामाङ्काः पतत्रिणः । दुष्कर्मतर्जनीकल्पास्तात ! मां तर्जयन्त्यलम् ॥१२१॥ समरं संस्मरन्नेवं तात ! खिद्ये पदे पदे । सम्प्रत्येतां ततोऽवज्ञामविज्ञस्य क्षमस्व मे ॥१२२॥ एवं विज्ञापितः सर्वैः पाण्डवैर्मुनिपुङ्गवः । प्रसादपिशुनं तेषां पृष्ठेऽदात्करपल्लवम् ॥१२३॥ शुक्लं ध्यायन्नथ ध्यानं सुसमाहितमानसः ।। सद्यो विदन्निवाऽऽत्मानं संसारार्णवपारगम् ॥१२४॥ आनयन्नात्मतादात्म्यं पञ्चापि परमेष्ठिनः । मासिकानशनो मृत्वा गाङ्गेयः प्रापदच्युतम् ॥१२५॥ सुरैर्नभश्चरैः पाण्डुनन्दनैरपि साश्रुभिः । अकारि देहसंस्कारस्तस्य गोशीर्षचन्दनैः ॥१२६।। पाण्डवानथ सम्बोध्य श्रीभद्रगुप्तसूरयः । अन्यत्र सूत्रयामासुविहारं हारिसंयमाः ॥१२७।। गायन्तश्च सरोमाञ्चं मुनेस्तस्य गुणान्मुदा ।
खेचरामरगन्धर्वा ययुः सर्वे यथागतम् ॥१२८॥ तद्ब्रह्मव्रतमद्भुतं निरुपमां तां प्राणिवर्गे कृपां तच्छौण्डीर्यमनन्यतुल्यमतुलां सर्वत्र तामाप्तताम् । गाङ्गेयस्य मुनेः परैरसुलभां तां चापि निःसङ्गतां व्याख्यान्तः पथि पाण्डवा अपि ततो जग्मुः पुरं हास्तिनम् ॥१२९॥ इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये __ गाङ्गेयमुनिस्वर्गमनवर्णनो नाम पञ्चदशः सर्गः ॥१५॥ १. प्रसादसूचकम् । २. चक्रुः । ३. मनोहरसंयमाः शुद्धचारित्रवन्त इत्यर्थ । ४. कथयन्तः ।
15