SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ पञ्चदशः सर्गः । गाङ्गेयमुनिकृताऽन्तिमाराधना ॥] आचार्यभद्रगुप्तोऽथ मुनिं भीष्ममभाषत । प्रत्यासन्नो महाभाग ! पर्यन्तसमयस्तव ॥७८॥ अनुतिष्ठ कुरुश्रेष्ठ ! भूयोऽप्याराधनां ततः । योगो निरन्तराभ्यासात्सौरभ्यं लभतेऽधिकम् ॥७९॥ एवं गुरुभिरादिष्टस्तुष्टुवे तान्मुनीश्वरः । पुनर्विधिवदाधत्त मूलादाराधनामिति ॥८०॥ ज्ञानाचारेऽष्टभेदेऽभूद्योऽतीचारः कथञ्चन । समस्तमपि निन्दामि तं त्रेधा, शुद्धमानसः ॥८१॥ अष्टधा दर्शनाचारे जातं नि:शङ्कितादिमे । जन्मतोऽहमतीचारं सर्वं गर्हे समाहितः ॥८२॥ ख्याताः समितयः पञ्च तिस्रस्तु किल गुप्तयः । अष्टावेताः समेता याः प्रोक्ताः शासनमातरः ॥ ८३ ॥ तदेकात्मनि चारित्राचारेऽतीचारमागतम् । अन्तिमाराधनां सम्यग्विधित्सुर्क्युत्सृजाम्यहम् ॥८४॥ युग्मम् । षोढा बाह्यं तपः षोढा वदन्त्याभ्यन्तरं तथा । तत्रातीचारमायातं निन्दामि प्रयतोऽधुना ॥ ८५ ॥ स्वानुष्ठानेषु यद्भ्रश्यद्वै(द्धै)र्यो वीर्यमगोपयम् । तत्त्रिधा त्रिविधेनाहं गर्भे दौरात्म्यमात्मनः ॥८६॥ सूक्ष्मबादरभेदेषु स्थावरेषु त्रसेषु च । प्राणातिपातमाजन्मकृतं निन्दाम्यहं त्रिधा ॥८७॥ हास्यलोभभयक्रोधैः पीडाकारि परस्य यत् । अजल्पिषं मृषा किञ्चित्तत्सर्वं व्युत्सृजाम्यहम् ॥८८॥ अल्पमल्पेतरं वा यत्परकीयं मया क्वचित् । अदत्तमात्तमाबाल्यात्तं निन्दामि पुनः पुनः ॥ ८९॥ तैरश्चं मानुषं दिव्यं यदब्रह्मनिषेवितम् । त्रिविधेन त्रिधा तत्र मिथ्या दुष्कृतमस्तु मे ॥९०॥ समस्तवास्तुधान्यादौ द्विपदेऽथ चतुष्पदे । यदकार्षमहं मूर्च्छां तन्निन्दामि मुहुर्मुहुः ॥९१॥ [ ६३९ 5 10 15 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy