SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ ६४०] [पाण्डवचरित्रमहाकाव्यम् । गाङ्गेयमुनिकृताऽन्तिमाराधना ॥ समृद्धिगधिना पूर्वमाहारश्च चतुर्विधः ।। अभुज्यत मया नक्तं विविक्तस्तं त्यजाम्यहम् ॥९२॥ महाव्रतानि चत्वारि सूत्रतोऽप्यर्थतोऽपि च । परावर्त्य तदेकाग्रः पुनरुज्ज्वलतां नये ॥१३॥ दुर्वाक्यादपकाराद्वा यद्वा द्रव्यापहारतः । यो मया लम्भितः पीडां स मे क्षाम्यतु सम्प्रति ॥९४॥ देवत्वे ये मया देवा नारकत्वे च नारकाः । तिर्यक्त्वेऽपि च तिर्यञ्चो मानुषत्वे च मानुषाः ॥१५॥ स्थापयाञ्चक्रिरे दुःखे सर्वे क्षाम्यन्तु ते मयि । उपेतः समतां सर्वं तेषामहमपि क्षमे ॥९६॥ युग्मम् । लक्ष्मी रूपं प्रियैर्योगो जीवितं यौवनं बलम् । वातोद्भूताब्धिकल्लोलचञ्चलं सकलं खलु ॥१७॥ रोगमृत्युजराजन्मदुःस्थानामिह देहिनाम् । धर्ममेकं विना जैन न कोऽपि शरणं भवेत् ॥९८॥ जन्तवः स्वजनाः सर्वे जाताः परजनाश्च ये । विवेकी तेषु कुर्वीत को ममत्वं मनागपि ? ॥१९॥ एकस्यैव भवे जन्म स्यादेकस्यैव पञ्चता । एकस्यैवाङ्गभाजः स्युर्दुःखानि च सुखानि च ॥१०॥ वपुरन्यदिदं जीवादन्यद्धान्यधनादिकम् । जीवोऽन्यः पुनरेतेभ्यः कथं मुह्यन्ति बालिशाः ॥१०१॥ वसाशोणितविण्मूत्रयकृन्मांसास्थिसम्भृते । अशुचिप्रचिते देहे को हि मुह्यति कोविदः ? ॥१०२॥ अवक्रयकुटीतुल्यं यत्नाल्लालितपालितम् । अचिरादपि मोक्तव्यं विनश्वरमिदं वपुः ॥१०३॥ धीरस्य कातरस्यापि मृत्युरेत्येव देहिनः । तन्नियेत तथा धीमान्न म्रियेत यथा पुनः ॥१०४॥ अर्हन्तो निखिलाः सिद्धाः साधवः स्वगुणोन्नताः । अर्हद्धर्मश्च शरणं भवन्त्वशरणस्य मे ॥१०५॥ 15 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy