________________
5
10
15
20
25
६३८]
[ पाण्डवचरित्रमहाकाव्यम् । युधिष्ठिरस्य तुष्टता ॥
तुष्टा च तपसा तेन काचिदभ्येत्य देवता । वरं वत्स ! वृणीष्वेति निजगाद जयद्रथम् ॥६४॥ सोऽथ मे दुस्तपस्यास्य यद्यस्ति तपसः फलम् । ततो वधाय पाण्डूनां स्यामित्येतामयाचत ॥६५॥ साऽप्यवोचदवाच्यैव वाचोयुक्तिरियं त्वया । संविधातुं वधं वत्स ! नैषामाखण्डलोऽप्यलम् ॥६६॥ आयुश्चरमदेहानामेषां हि निरुपक्रमम् । यदेते व्रतमादाय तीर्थे सेत्स्यन्ति नेमिनः ॥६७॥ तदेतेषां वधे मा स्म कृथा मिथ्यामनोरथान् । केवलं दुष्करस्यैतद्भावि ते तपसः फलम् ॥६८॥ यद्भवान् पाण्डवानेतान्कुरुव्यूहे विविक्षतः । दिनमेकं रणच्छेको लीलया स्खलयिष्यति ॥६९॥ इति तस्मै समाख्याय देवता सा तिरोदधे । कृतं युष्मासु तेनापि यत्किञ्चिद्वित्थ तत्स्वयम् ॥७०॥ तदेतत्तव कौन्तेय ! तपोमाहात्म्यमीरितम् । भावोऽधुना सर्वधर्मधुर्यस्तुर्यो निशम्यताम् ॥७१॥ सर्वदैवातिदुर्लभो भावः सिद्धरसोपमः । दानादयोऽपि जायन्ते येन कल्याणमूर्तयः ॥ ७२ ॥ एतस्मादेव कौन्तेय ! सच्चारित्रपचेलिमान् । मोक्षोऽपि कर्मनिर्मोक्षलक्षणस्तत्क्षणाद्भवेत् ॥७३॥ चारित्रावाप्तिसम्पन्नतत्त्वज्ञानेन ते मया । पुमर्थावुत्तमावेतौ धर्ममोक्षावुदाहृतौ ॥७४॥ कौन्तेय ! विधिवन्नित्यमुपासीथास्त्वमप्यमू । समग्रसमरारम्भपाप्मनो येन मुच्यसे ॥ ७५ ॥ एवामाकर्ण्य पर्जन्यगर्जिवन्मुनिदेशनाम् । शिखण्डीव कृतानन्दताण्डवोऽभूद् युधिष्ठिरः ॥७६॥ अभ्यधाच्च प्रभो ! साधु साधु सम्बोधितोऽस्म्यहम् । तवामुना प्रसादेन नीतश्च कृतकृत्यताम् ॥७७॥৷