________________
पञ्चदशः सर्गः । दानादिवर्णनम् ॥]
जन्तुं धिनोति नोदात्तैर्दत्ता रत्नावलिस्तथा । सर्वतोऽप्यभयं तुभ्यमिति वर्णावलिर्यथा ॥५१॥ आगमादिसमीचीनग्रन्थतत्त्वार्थसिद्धिषु । कुर्वतां साधुसाहाय्यं ज्ञानदानमुदाहृतम् ॥५२॥ धन्यैर्ज्ञानप्रदीपेन निस्तुषज्योतिषाधिकम् । अन्तरङ्गं तमस्काण्डमशेषमपि खण्ड्यते ॥५३॥ वस्तुना येन दत्तेन साधोः सिध्यति संयमः । तृतीयं तदुपष्टम्भदानमाम्नातमर्हता ॥ ५४ ॥ प्रीत्युदञ्चितरोमाञ्चः कर्मक्षयकृते क्षमी । वस्तुकल्प्यं सुपात्राय ददीत विगतस्पृहः ॥५५॥ काले दानं सुपात्रेभ्यः सद्गुरूणां समागमः । भवाब्धौ बोधिलाभश्च भाग्यलभ्यमिदं त्रयम् ॥५६॥ चित्तं वित्तं च पात्रं च त्रयमेकत्र सङ्गतम् । दुर्लभं लभ्यते येन जन्म तस्य फलेग्रहि ॥५७॥ लक्ष्मीः सौभाग्यमारोग्यमाज्ञैश्वर्यं गुणोन्नतिः । आदेयता च कौन्तेय ! दानकल्पद्रुपल्लवाः ॥ ५८ ॥ देशतः सर्वतो वाऽपि विरतिः शीलमुच्यते । यतः संसारपारीणाः स्त्रियोऽप्यासन्ननेकशः ॥५९॥ दानमातन्यते पापपीवरैरपि पामरैः । न तु पालयितुं शीलं शक्यते येन केनचित् ॥६०॥ बाह्यमुक्तं तपः षोढा षोढा चाभ्यन्तरं बुधैः । कर्ममर्मच्छिदा कर्मच्छेकमेकं यदुच्यते ॥ ६१॥ इहापि स्यान्महीयस्यै तपोऽभीष्टार्थसिद्धये । स्वयमेव त्वया दृष्टो दृष्टान्तोऽत्र जयद्रथः ॥६२॥ द्रौपदीहरणे ह्येष तदा प्राप्य पराभवम् । दुष्टः कष्टं तपस्तेपे युष्मद्वधविधित्सया ॥६३॥
[ ६३७
10
5
15
20
25