________________
[६३५
पञ्चदशः सर्गः । युधिष्ठिरस्य प्रार्थना ॥]
विवेकाऽऽख्यं निधिं तात ! तृष्णाऽमुष्णान्ममाखिलम् । राज्याय बान्धवध्वंसमकार्षं कथमन्यथा ? ॥२५॥ ज्ञातिसंज्ञापनोपज्ञकल्मषैकमलीमसाः । व्याकोशकोशहस्त्यश्वबन्धुरा अपि धिक् श्रियः ॥२६।। इन्दुकुन्दद्युतिं कीर्तिं धर्मं च द्वयमप्यदः । दुःखाकृत्योदयन्ते याः सम्पदस्ता न सम्पदः ॥२७॥ अहह ! ज्येष्ठयोः पित्रोर्गान्धारीधृतराष्ट्रयोः । अदायि यन्मया दुःखं तत्तु वाचामगोचरः ॥२८॥ तत्पथप्रस्थितस्तात ! साम्प्रतं पारलौकिके । प्रसीदान्त्योपदेशेन केनाप्यनुगृहाण माम् ॥२९॥ येनास्मान्नरकक्रोडवासप्रतिभुवोऽधुना । मुच्येयं बान्धवध्वंसनिदानात्खलु पाप्मनः ॥३०॥ पुराऽप्यदायि यो मह्यं राजधर्मोचितस्त्वया । उपदेशः स हृद्यस्ति वास्तव्योऽद्यापि तद्यथा ॥३१॥ सर्वैर्नृपगुणैर्युक्ताः सुवृत्ताः प्राज्यवंशजाः । भूमेभूषणतां यान्ति हारा इव नरेश्वराः ॥३२॥ पार्थिवानामलङ्कारः प्रजानामेव पालनम् । किरीटकटकोष्णीषैर्भूष्यन्ते केवलं नटाः ॥३३॥ विशेषज्ञः कृतज्ञश्च गुरौ देवे च भक्तिमान् । अप्रतार्यश्च धूर्तानां भुवं भुङ्क्तेऽब्धिमेखलाम् ॥३४॥ सेवागुरौ तदादिष्टे ग्रहः पुरुषसङ्ग्रहः । शौर्यं धर्मश्च पञ्चामी राज्यलक्ष्मीलताम्बुदाः ॥३५॥ आपन्नस्यार्तिहरणं शरणागतरक्षणम् । त्यागः प्रजानुरागश्च श्रीतरीनांगरा अमी ॥३६॥ दानेन क्षमया शक्त्या गणं राजाऽनुपालयेत् । गणकोपः क्षयो राज्ञां विजयो गणसङ्ग्रहः ॥३७॥
१. संज्ञापनं-मारणम् । २. प्रफुल्लम् । ३. तथ्यं-प्रत्यन्तर० ।