________________
६३४]
[पाण्डवचरित्रमहाकाव्यम् । पाण्डवानां प्रमोदः ॥ अहंपूर्विकयोपेतैरमरैरथ खेचरैः ।। वर्द्धमानाधिकश्रद्धैराबद्धपरिमण्डलम् ॥११॥ नराणां खेचराणां च स्त्रीभिः स्वर्वासिनामपि । प्रारब्धरासकोत्तालतालवाचालसन्निधिम् ॥१२॥ आनन्दमग्नं नासाग्रन्यस्तनिश्चललोचनम् । गाङ्गेयमुनिमद्राक्षीच्चारित्रमिव मूर्तिमत् ॥१३॥ सप्तभिः कुलकम् । पितामहं तथा प्रेक्ष्य पाण्डवानां दृशस्तदा । आसन्नानन्दशोकाभ्यां शीतलोष्णजलाविलाः ॥१४॥ किरीटं पादुके छत्रं कृपाणं चामराणि च । दूरादुर्वीपतिर्मुञ्जन्पञ्चधाऽभिगमं व्यधात् ॥१५॥ अष्टमीन्दुनिभे कुर्वल्ललाटे करकुड्मलम् । ययौ नैषेधिकीपूर्वमुर्वीशस्तदवग्रहम् ॥१६॥", तत्र कृत्वोत्तरासङ्गं निःसङ्गैकशिरोमणेः । स त्रिः प्रदक्षिणीकृत्य पादयोरपतन्मुनेः ॥१७॥ प्रत्येकं तस्य वात्सल्यं स्मरन्तस्तत्तद्भुतम् । नप्तारोऽन्येऽपि चत्वारश्चरणौ मूर्द्धनि न्यधुः ॥१८॥ तेऽजस्रमश्रुधाराभिः क्रमावस्नपयन्मुनेः । । भेजिरे विरजीभावं भक्तिप्रवाः स्वयं पुनः ॥१९॥ धर्मलाभमयीस्तेषामाशिषोऽदान्मुनिः शनैः । तेऽप्युपेत्य प्रमोदेन न्यषीदंस्तन्मुखाग्रतः ॥२०॥ मुनिराकृष्य नासाग्रात्तेषु चिक्षेप चक्षुषी । महान्तो हि परार्थाय स्वार्थेषु शिथिलादराः ॥२१॥ आजन्मचापसम्पर्ककर्कशं मुनिपुंगवः ।। पाणि व्यापारयामास तेषां पृष्ठे पुनः पुनः ॥२२॥ सुधासब्रह्मचारिण्या गाङ्गायनिमुनेदृशा । सिक्तस्त्यक्तमनस्तापः पार्थिवस्तं व्यजिज्ञपत् ॥२३॥ प्रभो ! प्रभूतसम्भूतपापपङ्केन पङ्किलः । निर्मलोऽस्तु ममाऽऽत्माऽयं त्वदुपास्तिसुधाऽम्बुधौ ॥२४॥
15
25