________________
पञ्चदशः सर्गः । युधिष्ठिरस्य गाङ्गेयमुनिसमीपे गमनम् ॥]
पञ्चदशः सर्गः ॥
दीक्षाप्रपन्नमन्येद्युरुद्यद्भक्ति पितामहम् । नन्तुं यियासुरादित् सपौरान्बान्धवान्नृपः ॥ १ ॥ ते तदैव समारूढाः प्रौढेषु तुरगादिषु । क्लृप्ताकल्पा नृपद्वारमभ्युपेत्यावतस्थिरे ॥२॥ अगण्यदेवमण्यादिवरेण्यावर्तवाजिनम् । वाजिनं पञ्चकल्याणमारुरोह महीपतिः ॥३॥ मुनिर्यत्रास्ति गाङ्गेयः प्रतस्थे तत्र पार्थिवः । ऋक्षेशमिव ऋक्षाणां गणो लोकस्तमन्वगात् ॥४॥ मुनिवन्दारुगीर्वाणविमानैः स्थगिते रवौ । राजन्यानां पथि व्यर्थैर्जातमातपवारणैः ॥५॥ सपौरस्तं भुवो भर्ता देशमादेशवान्क्रमात् । भीष्मालंकृतशैलान्ते स्वसैन्यं स न्यवेशयत् ॥६॥ ततश्चरणचारेण गच्छन्नरपतिः पुरः । शयानं शरशय्यायामात्मध्यानपरायणम् ॥७॥ गीतार्थै मुनिभिर्लानपरिचर्याविचक्षणैः-। संवाह्यमानसर्वाङ्गं करैः कमलकोमलैः ॥८॥ आचार्यभद्रगुप्तेन दीयमानानुशासनम् । देहतो देहिनो भेदनिश्चयैकाग्रचेतसम् ॥९॥ देहदक्षिणभागस्थं भवभङ्गैकमुद्गरम् । धारयन्तं मनोहारि रजोहरणमन्तिके ॥१०॥
१. रचिताभरणाः । २. देवमणिः अश्वगलस्थलोमावर्तविशेष । ३. वाजी - वेगवान् ।
[ ६३३
5
10
151
20