________________
६३२]
[ पाण्डवचरित्रमहाकाव्यम् । पाण्डवकृतानि धर्मकृत्यानि ॥ यात्रां स सूत्रयामास समस्तजिनवेश्मसु । सर्वद्वारमुदारा हि यतन्ते सुकृतार्जने ॥३२९॥ तत्रस्थ एव नाशिक्ये स श्रीचन्द्रप्रभप्रभोः । अचीकरत्सदाचारपूतः पूजामहोत्सवम् ॥३३०॥ इति सुचरितैस्तैः स्तैः सिक्त्वा सुधा इव बान्धवैः परमुपचयं पाण्डोः सूनुर्निनाय नयद्रुमम् । स च निरुपमानन्दस्यन्दि क्षणात्सुषुवेतमामखिलनृपतिश्लाघ्यं पुण्यं यशश्च फलद्वयम् ॥३३१॥ इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये
जरासंधवधवर्णनो नाम चतुर्दशः सर्गः ॥१४॥
10