SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः । गान्धारी गर्भः ॥] [४९ __ द्वितीयः सर्गः ॥ अथाऽन्येधुरतिस्फीता पत्यौ प्रीतिमुपेयुषी । बभार गर्भं गान्धारी शमीवानिलसारथिम् ॥१॥ उन्मीलितमहौद्धत्यो जज्ञेऽन्तर्मनसं मदः । बहिरापीनभावश्च तस्या वक्षोजकुम्भयोः ॥२॥ अवसादः शरीरस्य तस्या गर्भभवोऽभवत् । जगदाक्रमणोत्साहश्चेतसस्तु व्यजृम्भत ॥३॥ गर्भेणाभ्यधिकं तस्याः कृतमुज्ज्वलमाननम् । अजायेतां तु वक्षोजौ कामं श्याममुखौ तदा ॥४॥ ससत्वा धृतराष्ट्रस्य सा बभूवातिवल्लभा ।। कृषिः कृषीवलस्येव सम्पन्नान्तःफलोदया ॥५॥ तस्या गर्भानुभावेन दोहदैर्जातमुद्धतैः । अन्तर्द्रव्यानुरूपा हि पयस्यामोदसम्पदः ॥६॥ उग्रेण विग्रहेणैव विपदामुदयेन च । जनानां जायमानेन तस्याः सम्पेदिरे मुदः ।।७।। तस्याः सनीडसम्पन्ना निगडध्वानबन्धुराः । बबन्धुर्बन्धनागारे हाकारध्वनयो धृतिम् ॥८॥ तया निष्कारणक्रोधविकटभ्रकुटीजुषा । पूज्येष्वपि विसृज्यन्ते न्यक्कारविरसा गिरः ॥९॥ मत्तमातङ्गमारुह्य पुरे पुरुषवेषभृत् । सा स्वच्छन्दविहारेण पूरयामास दोहदम् ॥१०॥ 15 20 १. अग्निम् । २. विकसितं महत् औद्धत्यं यस्मिन् सः । ३. समीपे प्राप्ताः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy