________________
5
10
४८ ]
[ पाण्डवचरित्रमहाकाव्यम् । ऋतु वर्णनम् ॥
मृगनेत्राः प्रियाः प्राप्य हैमनीर्यामिनीश्च ताः । स्मरपारायणं साङ्गमध्यगीषत तेऽखिलम् ॥ ५८७।। ते प्रियाणां तदा कण्ठे गण्डयोः स्तनमण्डले । मसृणैर्घुसृणक्षोदैर्लिलिखुः पत्रवल्लरीः ॥५८८॥ प्रियावक्षोजघर्मोर्मिनिरस्ततुहिनापदाम् । शिशिरोऽप्यकरोत्तेषां मधुवच्चन्दने स्पृहाम् ||५८९॥ दयितादशनौपम्य सुभगं भावुकं तदा । आसीद्विशेषतस्तेषां कुन्दमानन्दहेतवे ॥५९०॥
सौधे कदाचन कदाचन काननेषु, वाप्यां कदाचन कदाचन केलिशैले । पञ्चेषुसायकसहाः सह वल्लभाभिः, सर्वर्तुचक्रमतिचक्रमुरेवमेते ॥५९१॥
[ वसन्ततिलका]
इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये पाण्डवपूर्वजवर्णनो नाम प्रथमः सर्गः ॥ १ ॥
१. कुङ्कुमचूर्णैः ।