SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ ६२२] 10 [पाण्डवचरित्रमहाकाव्यम् । जरासंध-कृष्णयोर्युद्धम् ॥ इतस्ततः परिभ्रेमुः सम्भ्रमेण नभश्चराः । स्वर्गौकसोऽपि तन्मार्गाद्विमानान्यपनिन्यिरे ॥१९५।। तदस्त्रस्ताडयामास चक्रमर्धपथे हरिः । मुहुर्मुसलसीराभ्यां सीरपाणिश्च निश्चलः ॥१९६॥ रुष्टोऽत्यन्तमनाधृष्टिः परिघेण जघान तम् । शस्त्रैः समस्तैनिस्तन्द्रः समुद्रविजयः पुनः ॥१९७॥ शक्ति च तत्प्रहाणाय प्राहिणोद् धर्मनन्दनः । गदां पुनर्जगज्जैत्रीमादरेण वृकोदरः ॥१९८॥ रुरोध कौरवजयोर्जस्वलैरर्जुनः शरैः । कुन्तेनारिकृतान्तेन प्रयत्नान्नकुल पुनः ॥१९९।। संरोद्धं सहदेवोऽस्त्रैस्तच्चक्रमुपचक्रमे । सर्वात्मनाऽपि विक्रान्तं पञ्चभिस्तत्र पाण्डवैः ॥२००॥ अन्येऽपि यादवाः सर्वे विविधैरायुधैर्निजैः । युगपत्तदपाचक्रुश्चक्रमुद्दामविक्रमाः ॥२०१॥ केनाप्यस्खलितं भूरि स्फुलिङ्गोदगारि तत्तदा । मार्तण्डमण्डलनिभं नभस्यायाति वेगतः ॥२०२॥ ततो मनसि मन्वाना जातं विश्वमकेशवम् । यादवाः समजायन्त सबाष्पश्यामलाऽऽननाः ॥२०३॥ जरासंधपताकिन्यां किञ्चित्सानन्दचेतसि । अहो ! किमद्य भावीति सोत्प्रेक्षे प्रेक्षके जने ॥२०४॥ समुद्रविजयादीनां दीनान्त:करणस्पृशाम् । पश्यतामेव तुम्बेन जवादाहत्य वक्षसि ॥२०५॥ उपसर्गेऽपि तादृक्षे निःशोभमनसो हरेः । अन्तेवासी व पादान्तं तच्चक्रं समशिश्रियत् ॥२०६॥ त्रिभिर्विशेषकम् । सानन्दे यादवानीके प्रत्यनीके विषादिनि । हेलयैव हरिः किञ्चिन्नीचैर्भूय तदाददे ॥२०७॥ दम्भोलिनेव जम्भारि: प्रभामण्डलशालिना । पाणिप्रणयिना तेन केशवः शुशुभेतमाम् ॥२०८॥ 15 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy