________________
[६२१
चतुर्दशः सर्गः । जरासंध-कृष्णयोर्युद्धम् ॥]
विब्रुवन्तमिति क्रोधाद्विरोधिनमनेकधा । मनागप्यकृतक्षोभस्तं जगाद जनार्दनः ॥१८२॥ राजन् ! यदात्थ तत्तथ्यं सत्यैव दुहितुस्तव । प्रतिज्ञा भविता किन्तु ज्वलद्वह्निप्रवेशनात् ॥१८३।। इति तं व्याहरन्नेव प्रेरितः शकुनैः शुभैः । हरिः सरभसोऽभ्येत्य प्रतिजग्राह मार्गणैः ॥१८४॥ जरासंधो धनुर्दण्डादथ प्रसृमरैः शरैः । भयं यदनां विदधे पिदधे चार्कमण्डलम् ॥१८५॥ चित्रांस्तान्पत्रिणः शत्रोर्मूर्तानिव मनोरथान् । निरुद्धरोदसीरन्ध्रान्खण्डयामास केशवः ॥१८६।। रामरावणसङ्ग्रामदृश्वनां स्वर्निवासिनाम् ।। अजायत तयोर्युद्धे तागेव रसः पुनः ॥१८७।। शस्त्रं यद्यज्जरासंधो मोक्तुमैक्षदधोक्षजे । मार्गणैस्तत्तदप्राप्तमोक्षं चिच्छेद स क्षणात् ॥१८८॥ अपूर्वसंयुगालोककौतुकाकुलमानसैः ।। खेचरै रचयाञ्चक्रे कलः कलकलो दिवि ॥१८९॥ मुरारेः प्रतिपक्षास्त्रैरस्त्राणि मगधेशितुः । विधीयन्ते स्म वन्ध्यानि ध्वान्तानीव रवेः करैः ॥१९०॥ केतुच्छेदशरच्छेदजीवच्छेदैविलक्ष्यताम् । नीतः पीतद्विषच्चक्रं चक्रं सस्मार मागधः ॥१९१॥ देवताऽधिष्ठितं तस्य क्रोधारुणदृशस्तदा । कराम्भोजमलञ्चक्रे तदप्यागत्य वेगतः ॥१९२॥ रे ! गोप ! न भवस्येष इति जल्पन्मुहुर्मुहुः । चक्रं चिक्षेप साक्षेपमानसो मगधाधिपः ॥१९३।। तच्च स्वच्छन्दमागच्छत् समुद्रविजयादिभिः । यादवैर्ददृशे व्योम्नि हाहारवपुरःसरम् ॥१९४॥ १. क्रोधः इति प्रतिद्वय । २. 'जरासंधधनु०' प्रतित्रय० ।