SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 ६२० ] अथालोक्य जरासंधो यवनादिसुतक्षयम् । विकटभ्रुकुटीबन्धः कैटभारातिमभ्यगात् ॥१६९॥ दृप्तैरेकोनसप्तत्या जरासंधसुतैरथ । पितुरग्रेसरैर्भूत्वा रुध्यते स्म जनार्दनः || १७० ॥ शोणदृष्टिपुटैरष्टाविंशत्या तु हलायुधः । सङ्ग्रामयितुमारेभे शरभः सिंहकैरिव ॥१७१॥ सावहेलमुदस्तेन हलेन मुसलेन च । अमून्मशकनिष्पेषं निष्पिपेषाग्रजो हरेः ॥१७२॥ तद्वधोच्छलितक्रोधप्रबोधो मगधेश्वरः । निर्दयो गदया रामं ताडयामास वक्षसि ॥१७३॥ तत्प्रहारव्यथादौस्थ्यादसृक्कल्लोलमाकुलः । भृशं ववाम रामोऽपि हाहारावं च वाहिनी ॥ १७४॥ प्रजिहीर्षु पुना रामे निस्त्रिंशं मागधं नृपम् । चण्डगाण्डीवपाण्डित्यात् खलयामास फाल्गुनः ॥१७५॥ अर्जुनस्य शितैर्बाणैर्बाधितो मागधस्तदा । तदेकोपज्ञमज्ञासीत् कौरवाऽऽरामसंक्षयम् ॥१७६॥ गदाप्रहारवैधुर्यं पश्यन् रामस्य केशवः । सर्वांस्तानन्तयाञ्चक्रे तनूजान् मगधेशितुः ॥१७७॥ तन्निशुम्भनसम्भूतप्रभूताक्षेपदुःसहम् । माधवं मगधाधीशः समेत्य सविधेऽभ्यधात् ॥१७८॥ रे गोपाल ! ध्रुवं कालः कृतक्रोधोदयोऽधुना । आकर्षति जरासंधः कंसमुख्यांस्तवोदरात् ॥१७९॥ समादत्स्व किमप्यस्त्रमात्मत्राणैककारणम् । अनायुधमसंनाहं नाहमाहन्मि जातुचित् ॥१८०॥ दृष्टभर्तृवधा दृष्ट्वा वधं तद्बधकस्य ते । सुता जीवयशा मेऽस्तु प्रतिज्ञापारहश्वरी || १८१ ॥ १. अष्टापदः । २. निशुम्भनं व [ पाण्डवचरित्रमहाकाव्यम् । जरासंधक्रोधः ॥ - वधः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy