________________
[६२३
चतुर्दशः सर्गः । जरासंधवधः ॥]
अम्भोजमिव तच्चक्रमुपादाय प्रतोलयन् । निगर्वः कंसविध्वंसी मगधाधिपमभ्यधात् ॥२०९॥ भो ! भूपालशिरोरत्न ! न यत्नः संयुगाय ते । साम्प्रतं साम्प्रतं येन दैवं नैवानुकूलिकम् ॥२१०॥ आत्मीयमप्यनात्मीयं शस्त्रं स्यात्कथमन्यथा । तद्गच्छ मागधान्स्वेच्छं विलसस्व(त्वं) ममाज्ञया ॥२११॥ नष्टं न किञ्चिदद्यापि मेदिनीश ! विमृश्यताम् । श्रुतं किं न त्वया ? जीवन्नरो भद्राणि पश्यति ॥२१२॥ इत्युक्तः सोऽपि साटोपं कैटभारिमभाषत । अरे ! गोपाल ! वाचालः सुतरामसि सम्प्रति ॥२१३॥ सम्प्राप्तेनामुना मन्ये लोहखण्डेन माद्यसि ।। अमेयः सारमेयस्य गर्वोऽस्थिशकलादपि ॥२१४॥ इति संतक्ष्य तीक्ष्णेन वचसा सहसा हरिम् । स शरैस्ताडयामास व्योमेवाब्दैस्तपात्यये ॥२१५॥ स्वचक्रेणैव नेतव्याः प्राणान्तं प्रतिविष्णवः । इत्यागमरहस्यानि नान्यथेति विचिन्तयन् ॥२१६॥ शिर्षच्छेद्यस्य तस्याश शिरश्चिच्छेद केशवः ।। प्रसृत्वरप्रभाचक्रं चक्रं चिक्षेप लीलया ॥२१७॥ युग्मम् । तेन ज्वालाजटालेन सकिरीटं सकुण्डलम् ।। एत्य प्रसभमम्भोजच्छेदमच्छेदि तच्छिरः ॥२१८॥ नियूंढस्वामिकार्यत्वादाढ्यंभावुकतेजसा । चक्रेण तेनालञ्चक्रे पुनरेव हरेः करः ॥२१९॥ जगच्चेतश्चमत्कारिकंसारिबलदृश्वनाम् । आनन्दनिर्यदश्रूणां प्रसस्नुः स्वर्गिणां गिरः ॥२२०॥ नवमोऽनवमस्फूर्तिविस्फुरत्कीर्तिसौरभः ।। स एष द्विषदुच्छेदच्छेकोऽजनि जनार्दनः ॥२२१॥
15
20
25
१. श्रेष्ठस्फूर्ति ।