SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 ६१८] [ पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥ नीलोत्पलदलाभाश्वरथस्त्वेष वृकोदरः । कृष्णाश्वेन रथेनायमनाधृष्टिर्गजध्वजः ॥ १४२ ॥ अयं च शबलैरश्वैरक्रूरः कदलीध्वजः । महानेमिकुमारोऽयं कुमुदाभैस्तुरङ्गमैः ॥१४३॥ उग्रसेनः पुनरयं शुकतुण्डप्रभैर्हयैः । एष तित्तिरकल्माषैः सात्यकिस्तु तुरङ्गमैः ॥१४४॥ जराकुमारः कनकपृष्ठाश्वोऽयं मृगध्वजः । मेरुः कपिलरक्ताश्वः शिशुमार ध्वजस्त्वसौ ॥ १४५॥ काम्बोजैर्वाजिभिश्चायं सिंहलः श्लक्ष्णरोमसूः । पद्माभैर्वाजिभिश्चैव राजा पद्मरथः पुरः || १४६॥ पञ्चपुण्ड्रैर्हयैरेष कुम्भकेतुर्विदूरथः । पारापतप्रभाश्वोऽयं सारणः पुष्करध्वजः ॥ १४७॥ बहवो यादवोऽन्येऽपि नानारथहयध्वजाः । सन्त्येते न तु शक्यन्ते सर्वेऽप्याख्यातुमाख्यया ॥१४८॥ तदाकर्ण्य जरासंधः प्रवृद्धोत्साहसाहसः । मन्यमानस्तृणायैतानमृदनाद् यादवीं चमूम् ॥१४९॥ बभार भारतार्धे शक्लेशितं यादवं बलम् । मत्तमातङ्गनिर्यूननलिनीवनविभ्रमम् ॥ १५०॥ हतस्तम्बेरमस्तोममस्तंनीततुरङ्गमम् । भग्नस्यन्दनसंदोहदुरासदपदक्रमम् ॥१५९॥ प्रहारप्रोषितप्राणसुभटस्थपुटक्षिति । नव्यनिर्यदसृक्कुल्यासिक्तमागधसम्मदम् ॥ १५२ ॥ पराजयनितान्तार्तकुशार्तवसुधाधिपम् । मानमर्दनसम्पन्नसमरावेशकेशवम् ॥१५३॥ नृत्यत्कबन्धनिध्यानतद्ध्यानत्रिदशाङ्गनम् । अरिष्टनेमिरैक्षिष्ट स्वसैन्यं सान्द्रया दृशा ॥ १५४॥ चतुर्भि कलापकम् । १. स्थपुटं - विषमम् । २. निध्यानं - दर्शनम् ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy