________________
[६१७
चतुर्दशः सर्गः । युद्धवर्णनम् ॥]
असिखेटकहस्तेन भूयस्तेनोत्थितं रणे । कंसविध्वंसनोऽप्येनं नन्दकेनाभ्यपद्यत ॥१२९॥ अभूत्कुतूहलोत्थास्नुदिविषत्परिषत्तयोः । परस्परदृढाघातभग्नप्रहरणो रणः ॥१३०॥ हरिं जघान निःशङ्कमानसो दमघोषजः । तं पुनर्जातिसम्बन्धबद्धापेक्षमधोक्षजः ॥१३१।। तमथारिष्टमथनो निष्पिष्टमुकुटं व्यधात् । आचकाङ्क्ष शिरश्छेत्तुं तस्य चेदिपतिः पुनः ॥१३२॥ शिर्षच्छेद्योऽयमित्यात्तनिश्चयश्चैद्यमच्युतः ।
खड्गदूतमुखाच्चक्रे कंसस्य परिचारकम् ॥१३३॥ शिशुपालवधालोककल्लोलितरुषा ततः । अगस्तीयितुमारेभे युद्धाब्धौ प्रतिविष्णुना ॥१३४॥ सन्नद्धः सम्मुखीभूय भूयः क्षितिपसङ्खलाम् । दृष्ट्वा यदुचमूं सोऽथ दूतं पप्रच्छ सोमकम् ॥१३५।। दूत्येन गतवानेतानुर्वीशान्दृष्टपूर्व्यसि । नामग्राहम स्तन्मे सर्वानाख्यातुमर्हसि ॥१३६॥ अथाख्यत् सोमकः स्वामिन्सैन्यनाभौ नृपः पुरः । समुद्रविजयः स्वर्णवर्णाश्वोऽयं हरिध्वजः ॥१३७॥ अस्य सूनुर्जगन्मान्यो नि:सीमभुजविक्रमः । अयं तु शुकवर्णाश्वोऽरिष्टनेमिवृषध्वजः ॥१३८॥ सेनाऽग्रे धवलैरश्वैः कृष्णोऽयं गरुडध्वजः । नवीन इव जीमूतो बलाकाभिरलंकृतः ॥१३९॥ अस्य दक्षिणपक्षस्थोऽरिष्टवर्णैस्तुरङ्गमैः । रामस्तालध्वजः सोऽयं हिमवानिव जङ्गमः ॥१४०॥ नीलाश्वेन रथेनैष पाण्डुसूनुर्युधिष्ठिरः । धनंजयः पुनरयं रथेन श्वेतवाजिना ॥१४१॥
१. तन्नाम्ना खड्गेन ।