SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ ६१६] [पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥ क्व रे कृष्णः ? क्व रे कृष्ण ? इत्युच्चाहरन्मुहुः । उद्धतो मगधस्वामी वेगात्संयुगमाययौ ॥११६॥ चतुर्भिः कलापकम् । विरचय्य पुनश्चक्रव्यूहमव्याहतोर्जितः । बभञ्ज यादवोद्यानं मदान्धश्चेदिपद्विप ॥११७।। ततो यादवसेनानीम॒न्दंश्चेदिपतेश्चमूम् । विदधद्धनुराकृष्टिमनाधृष्टिरधावत ॥११८॥ नृपा दशसहस्राणि ये चेदिपसमीपगाः । रुरोध ताननाधृष्टिः कुञ्जरानिव केसरी ॥११९॥ तद्वधव्यग्रमालोक्य यदुराजचमूपतिम् । उत्तालः शिशुपालस्तु तत्रागाद्यत्र केशवः ॥१२०॥ अभ्यधाच्च तमित्युच्चैः कृष्ण ! निष्णोऽसि संयुगे । तत्किञ्चिदायुधं धत्स्व यत्ते त्राणाय जायते ॥१२१॥ हसन्नुवाच गोविन्दो माद्रीमातस्तवेदृशीः । दुःसहा अपि सोढास्मि कामं वाग्विषविपुषः ॥१२२।। अपराधशतेनापि न क्रोधं देवि ! ते सुते । कर्तास्मीति मया यस्मात्प्रतिपन्नं पितृस्वसुः ॥१२३॥ पर:शतापराधं त्वामिदानीं तु समापयन् । मनागपि भविष्यामि नोपालभ्यः पितृस्वसुः ॥१२४॥ इति कृष्णे वदत्येवं निस्त्रपश्चेदिपस्तदा । विततार शरैरेव प्रत्युत्तरमनुत्तरैः ॥१२५॥ तस्य बाणावली छित्त्वा बिसच्छेदं जनार्दनः । चिच्छेद धनुषो जीवां जीवातुमिव तेजसाम् ॥१२६॥ उपादाय परं चापमसौ यावदयुध्यत । तावत्कृष्णोऽस्य राज्यश्रीनिकेतं केतुमच्छिदत् ॥१२७।। ममन्थ सारथिं रथ्यान् रथं चैतस्य केशवः । बलिना स्पर्धमानस्य न्यक्कारो हि पदे पदे ॥१२८॥ 15 25 १. माद्री माता यस्य तत्संबोधनम् । ..
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy