________________
चतुर्दशः सर्गः । युद्धवर्णनम् ॥]
प्रावर्तत तयोः पूर्वं महाबाह्वोः शराशरि । निष्ठितायुधयोरासीन्मुष्टामुष्टि ततः परम् ॥१०२॥ जरासंधस्य सेनान्यं भीमस्तामनयद्दशाम् । लम्भितौ हरिरामाभ्यां यां प्राक् चाणूर - मौष्टिकौ ॥१०३॥ पुरा दुःशासनेनापि न ह्यसह्यन्त हन्त याः । कथं हिरण्यनाभोर्णनाभो मुष्टीः सहते ताः || १०४॥ मागधक्ष्मापतेस्तस्मिन्पतिते पृतनापतौ । अनीककाननं दग्धं यादवैस्तद्दवैरिव ॥ १०५ ॥ यादवध्वजिनीशानां स्वदोर्दर्पस्पृशामपि । पौरुषोत्कर्षसानन्दाः पेतुर्भीमे दृशस्तदा ॥ १०६॥ किमस्ति क्वचिदन्योऽपि कोऽपि भीमोपमो भटः ? । इतीवालोकितुं भानुः प्रापद् द्वीपान्तरं तदा ॥ १०७॥ विहाय समरारम्भमुभयोरप्यनीकयोः ।
स्वाम्यादेशेन भूपालाः प्रदोषे शिबिरं ययुः ॥ १०८॥ एकच्छत्रं मुदामासीत्स्कन्धावारे मुरद्विषः । जरासंधस्य तु शुचामहो विलसितं विधेः ॥ १०९॥
अनाधृष्टिसमाख्यातबाहुपौरुषसम्पदः ।
प्रीतेनाभिसभं राज्ञा समालिङ्ग्यन्त पाण्डवाः ॥ ११०॥ ते हिरण्यनाभेऽथ प्रभ्रश्यद्धैर्यवैभवः । शुशोच मगधाधीशः सहायाः खलु दुर्लभाः ॥ १११॥ ततः प्रातः पुनः प्राप्तधीरिमा मगधेश्वरः । शिशुपालमहीपालं सेनानीत्वेऽभ्यषिञ्चत ॥ ११२ ॥ स्वयमेवात्तसंन्नाहः संयुगोत्साहदुःसहः । उदूढशस्त्रमारूढः स्यन्दनं साम्परायिकम् ॥ ११३॥ अद्य स्यादजरासंधमकृष्णं वा महीतलम् । इत्थं संधाऽनुसंधानग्रहिलीकृतमानसः ॥११४॥ कीनाशाऽऽवाससंवासप्रतिभूमिः पदे पदे । यमदूतैरिवोल्लुण्ठैर्दुर्निमित्तैरुरीकृतः ॥११५॥
[ ६१५
5
10
15
20
25